SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1002 उपमितिभवप्रपञ्चा कथा / नाहं यास्यामि गच्छ त्वं प्रवृत्तो यत्र कुत्रचित् / वयस्य एवमेव त्वं यस्त्वमेवं प्रभाषसे / निराकरोषि त्वं तावदेकमुत्कलचारिताम् / द्वितीयं मामकं रत्नमञ्चयं दूषयस्यलम् // प्रभाखराणि यद्येवं रत्नानि न भवन्ति ते / पर्याप्तमपरस्तात तावकर्मम रत्नकैः / / ततश्चारुः पुनर्यावद्भाषणे स्फुरिताधरः / प्रवृत्तस्तावदितरस्तं प्रतीदमवोचत / कृतं कृतं ममानेन तावकोनेन मित्रक / शिक्षणेन निजस्थानं गच्छ शौघं निराकुलः // तदाकर्ण्य निजे चित्ते चारणा परिचिन्तितम् / नैवास्य शिक्षणं कर्तुं मूढस्य वत पार्यते // इतश्च / उपदेशं सदा तस्य चारोः कुर्वाणयोर्मुदा / ते भृते रत्नबोहित्थे तयोर्योग्यहितज्ञयोः // ततश्चारुः परित्यज्य तं मूढं कृतनिश्चयः / मार्ध योग्यहितज्ञाभ्यां गतः स्वस्थानमुच्चकैः // रत्नानां विनियोगं च कुर्वाणास्तत्र ते त्रयः / अनन्तानन्दसन्दोहपूरिताः सुखमासते // मूढस्तु दुःखदारिद्र्यभाजनं समजायत / निष्कासितस्ततो द्वौपात् केनचित्क्रुद्धभूभुजा // प्रचितः सागरे घोरे यादोभिः परिपूरिते / For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy