________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। कषायसंज्ञकास्तत्र बलोवर्दास्तु षोडश // हास्यमोकभयाद्यास्तु निपुणाः कर्मकारकाः / जुगुप्सारत्यरत्याद्यास्तेषां च परिचारिकाः // दुष्टयोगप्रमादाख्यं तत्र तुम्बद्वयं महत् / विलासोल्लामविब्बोकरूपास्तवारकाः स्मृताः // पापाविरतिपानौयपूर्णोऽदृष्टतलः सदा। तत्रासंयतजौवाख्यः कूपो दृष्टो भयङ्करः // पापाविरतितोयौघमन पूरितरेचितम् / सुदीर्घ जीवलोकाख्यं घटीयन्त्रमुदाहृतम् // मरणाख्यैः पुनर्नित्यं वहन्नेष विभाव्यते / पट्टिकाघट्टखादारैर्दूरादपि विवेकिभिः // अज्ञानमलिनात्माख्यो ज्ञेयस्तत्र प्रतीच्छकः / दृढं मिथ्याभिमानाख्यं तस्य दार्पटिकं मतम् // संक्लिष्टचित्तता नाम तत्र निर्वहणौ मता / भोगल्लोलुपता नाम कुल्या तत्रातिदौर्घिका / जन्मसन्तानसंज्ञं तु तत्र यावमुदाहृतम् / अपरापरजन्माख्यास्तत्र केदारका मताः // कर्मप्रकृतिजालाख्यं तत्र बोजमुदाहृतम् / तज्जीवपरिणामाख्यो वापकस्तस्य कीर्तितः / ततश्च / उप्तं तेनारघट्टेन मितं निष्पत्तिमागतम् / सुखदुःखादिमस्यौषजनकं तदुदाहृतम् / / 121 For Private and Personal Use Only