________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 656 उपमितिभवप्रयचा कथा। तबीयतां प्रमादेन मह्यमेषा लघु त्वया / नाथ भागवती दीक्षा मा विलम्बो विधीयताम् / / तत: सूरिस्तदाकर्ण्य हर्षविस्फारितेक्षणः / हरिं प्रत्याह चारूकं चारु चारु नरेश्वर // तथाहि / इदं विज्ञाय सद्राज्यं दौचालभ्यं सुखप्रदम् / कस्तो मकर्णो नादाय स्तोकेन बहु हारयेत् // योग्यस्त्वमसि दौराया भागवत्या न संशयः / पात्रे न वयं कुर्मी यत्नं तद् ग्टह्यतामियम् // ततस्तथेति भावेन प्रतिपद्य गुरोर्वचः / मविवेकैः समालोच्य समं मन्त्रिमहत्तमः // निजराज्ये च संस्थाप्य पुत्रं गार्दूलनामकम् / दिमान्यष्ट जिनेन्द्राणां प्रविधाय महोत्सवम् // पूरयित्वार्थिसङ्घातं मानयित्वा गुरूनखम् / विधाय नगरानन्दं कृत्वा सर्व यथोचितम् // समं मयूरमचर्या प्रधानश्च नरेश्वरैः / तस्योत्तमगुरोः पार्श्व निक्रान्तो विधिपूर्वकम् // ततः संप्राप्य तद्राज्यं मततानन्दसुन्दरम् / मोदमानो महाभागो विहार महीतले // दूतश्च / भनेऽग्टहीतमझेते मैथुनेन समेयुषा / तेन सागरमित्रेण नाटितोऽहमनेकधा // For Private and Personal Use Only