________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 844 उपमितिभवप्रपञ्चा कथा। स गच्छन्नि तेर्मार्ग संप्राप्तः परपूजनम् // तदेवं भुवनख्यातं सुखसन्दोहपूरितम् / तद्राज्यमन्तरङ्गं भोः परिपाल्य मनोहरम् // तेनौदामोन्यमार्गेण गच्छनिःशेषचेष्टितम् / सिद्धान्तोक्तं प्रकुर्वाण: पूर्वोक्तं दृढसंस्मृतिः // म तस्यामुत्तमो राजा नि तो सततोत्सवः / संप्राप्तः क्रमशो देव भुङके राज्यस्य सत्फलम् // अन्यच्च / देव मयाकर्णितं / यथा तस्यां नि तौ नगयों न मृत्युन जरा नातिर्न शोको नारतिर्न भौः / न बुभुक्षा पिपामा च न च केचिदुपद्रवाः // किं तर्हि। खाभाविकं निराबाधं वाधीनमुपमातिगम् / अनन्तं योगिगम्यं च सुखमेव हि केवलम् // ततश्च / एवं तत्पालितं तेन राज्यमुत्तमभूभुजा / येन तस्यां म संप्राप्तो जातश्चिन्ताविवर्जितः // अन्यच्च / यो राज्यदाता प्रागासौत्पिता चोत्तमभूपतेः / म कर्मपरिणामाख्यस्तेन जित्वा निराकृतः // यड्डतः सा ह्यतिक्रान्ता पुरौ यामुत्तमो गतः / ततश्च / न कर्मपरिणामाय ढौकमप्येष यच्छति // For Private and Personal Use Only