________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / टविकटः चारजनकल्लोलेरास्फोव्यमानो गुरुमत्यपुच्छच्छटाघातैर्बध्यमानस्तनुकतन्तुजन्तुसन्तानेर्विलोलमानो धवलशकुलावलीमण्डले विमुह्यमानो घनविद्रुमवनगहनेषु जनितभयो विविधमकरजलमानुषविषधरनकचरुल्लिख्यमानः कठिनकमठपृष्ठकण्टकैः कथंचित्कण्ठगतप्राणः सप्तरात्रेण संप्राप्तो जलधितौरं / श्राश्वामितः पवनेन / लब्धा चेतना / ततो बाधते मां बुभुक्षा अभिभवति पिपासा / ततोऽहं फलजलार्थों पर्यटितं प्रवृत्तो यावत् पुण्योदयस्य नष्टत्वावमतात्र मया वनम् / प्राप्तं पुष्पफलैः शून्यं मरुभूमेः समप्रभम् // तयापि तत्र वने अद्यापि करणीयं मे यतोऽस्ति बहुपातकम् / ततः पच्छ्रेण संपन्ना प्राणवृत्तिः कथंचन // अथ ग्रामपुराकोणं वसन्तं देशमागतः / न च शून्याभिमानेन पितुः पार्श्वमहं गतः // किंतु नष्टपुण्योदयस्ताभ्यां मित्राभ्यां परिवारितः / भ्रान्तो विविधदेशेषु भूयो भूयो धनेच्छया | तत्र च यद्याचरामि वाणिज्यं रूपेणाधं प्रजायते / करोमि कर्षणं तत्र दृष्टिदेशेऽपि नश्यति // ततः सेवां करोम्युच्चैर्विनयोद्यतमानसः / यावन्मम विना कार्य स राजा रोषमागतः // 114 For Private and Personal Use Only