SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / विडम्बयन्ति चात्मानं यथेष रिपुकम्पनः || ज्ञानावदातबुद्धीनां पुत्रे राज्य धनेऽपि वा / लोकाचर्यकरे जाते महत्यप्यस्य कारणे / / चित्ते न लभते ढोकं धन्यानामान्तरो रिपुः / वत्म मियाभिमानो ऽयं ते हि मध्यस्थदेहिनः / यावच्च कथयत्येवं विमर्शस्तत्र कारणम् / तावद्राजकुलद्वारे नरौ द्वौ ममुपागतौ // प्रकर्षणोदितं माम दृश्येते काविमौ नरौ / म प्राह मतिमोहेन युक्तः शोकोऽयमागतः // अत्रान्तरे सूतिकारटहे समुलमितः करुणकोलाहलोन्मिश्रः पूत्काररावः / प्रधावन्ति स्म महाहाहारवं कुर्वाणा नरपतेरभिमुखं दासचेव्यः / प्रशान्तमानन्दगुन्दलं / किमेतदिति पुनः पुनः पृच्छन् कातरीभूतो राजा। ताभिरभिहितं। त्रायस्व देव त्रायख / कुमारी भग्रलोचनो जातः / कण्ठगतप्राणैस्ततो धावत धावत / ततो वजाहत व संभातो राजा / तथापि सत्त्वमवलम्ब्य सपरिकरो गतः सूतिकाग्रहे / दृष्टः खप्रभोद्भासितभवनभित्तिभागः संपूर्णलक्षणधरः किंचिच्छेषजौवितव्यो दारकः / समाहृतं वैद्यमण्डलं / पृष्टो वैद्याधिपतिः / किमेतदिति। म प्राह / देव समापतितो ऽस्य कुमारस्य मुद्योघाती बलवानातकः / स च प्रचण्डपवन व प्रदीपमेनमुपसंहरति लगः पश्यतामेवास्माकं मन्दभाग्यानां / नपतिराह / भो भो लोकाः शौघ्रमुपक्रमध्वं यथाशक्त्या / कुमारं यो जौवयति तस्मै राज्यं प्रयच्छामि स्वयं च पदातिभावं प्रतिपद्येऽहं / 77 For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy