________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / भगवति किं पुनरिदं करे तव दृश्यते / बन्धुलयोक्त / भद्र मयूरमञ्जरोखहस्तलिखितं चित्रमिदं / मयोक्तं / किमर्थमिदं ग्टहीतं भगवत्या / बन्धलयोकं / मा भूत्कुमारस्य मदौयवचनादसंप्रत्ययः / अतस्तस्याः स्वभावसूचकमेतत् / मयोकं / चार विहितं भगवत्या / दत्ता कुमारस्य प्राणाः / ततो मया महिता गता सा हरिकुमारसमीपं / निवेदितं राजशासनं बन्धलया / कथितो मयापि तनिवेदितः समस्तोऽपि वृत्तान्तः / न च श्रद्धत्ते हरिकुमारः / ततः समर्पितो बन्धलयामौ दिपुटमंवर्तितश्चित्रपटः / प्रविघाव्य निरूपितो हरिकुमारेण / यावदृष्टमालिखितमेकपुटे सुविभक्तोउज्वलेन वर्णक्रमेण अलक्ष्यमाणैस्तुलिकापदकैरनुरूपया सूक्ष्मरेखया प्रकटदर्शनेन निनोन्नतविभागेन समुचितेन भूषणकलापेन सुविभनयावयवरचनयातिविलक्षणया बिन्दुवर्तिन्या अभिनवस्नेहरमोत्मकतया परस्परं हर्षात्फुल्लबद्धदृष्टिकं समारूढप्रेमातिबन्धुरैकतयालवितचित्तनिवेशं विद्याधरमिथुनकमिति / दृष्टं च तस्याधस्ताल्लिखितमिदं द्विपदीखण्डं / तद्यथा / प्रियतमरतिविनोदसंभाषणरभमविलासलालिताः / सततमहो भवन्ति ननु धन्यतमा जगतीह योषितः / अभिमतवदनकमलरसपायनलालितलोललोचनाः / सुचरितफलमनर्थ्यमनुभवति गमियमम्बरचरौ यथा // ततो निरौचितं राजतनयेन द्वितीयं चित्रपटपुटं / यावत्तत्र दृष्टा दवलोषितेव वनलतिका हिमहतेव नलिनिका दिनकरकरनिकरमुषितप्रभेव चन्द्र लेखिका उत्खोटितम्लानेव चतमञ्जरिका For Private and Personal Use Only