SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 802 उपमितिभवप्रपञ्चा कथा / पटलेन श्राक्रम्यन्ते भावदारिद्र्येण अभिभूयन्ते जराराक्षस्या त्राच्छाद्यन्ते मोहतिमिरेण आकय्यन्ते हषीकतुरङ्गमैः पापच्यन्ते क्रोधतोत्रवहिना अवष्टभ्यन्ते मानमहापर्वतेन वेश्यन्ते मायाजालिकया साव्यन्ते लोभसागरलवेन परिताप्यन्त इष्टवियोगवेदनया दोदूयन्ते ऽनिष्टमङ्गमतापेन दोलायन्ते कालपरिणतिवशेन तन्तम्यन्ते कुटुम्बपोषणपरायणतया कदीन्ते कर्मदानग्रहणिकैः अभियन्ते महामोहनिद्रया कवलौक्रियन्ते मृत्युमहामकरेणेति, त इमे महाराज जन्तवो यद्यपि श्टण्वन्ति वेणुवीणाम्मृदङ्गकाकलौगीतानि पश्यन्ति विभ्रमविब्बोककारिमनोहारिरूपाणि आखादयन्ति सुसंस्कृतकोमलपेशलहृदयेष्टविशिष्टाहारप्रकारजातं श्राजिघ्रन्ति कर्पूरागुरु कस्तूरिकापारिजातमन्दारनमेरुहरिचन्दनमन्तानकसुमनोहरकोष्ठपुटपाकादिगन्धजातं आलिङ्गन्ति कोमलललितललनाच्यादिस्पर्शजातं तथा ललन्ते मह स्निग्धमित्रवृन्देन विलमन्ति मनोरमकाननेषु विचरन्ति यथेष्टचेष्टया क्रीडन्ति नानाक्रीडाभिः भवन्ति सुखाभिमानेनानाख्येयरसव शनिर्भरा निमीलिताक्षाः तथाप्यमौषां जन्तनां क्लेशरूप एवायं यथासुखानुशयः / एवंविधविविधदुःखहेतशतवातपूरितानां हि महाराज कीदृशं सुखं का वा मनोनिईतिरिति / तदिमे दुःखपूरेण पूरिताः परमार्थतः / मोहादेवावगच्छन्ति जन्तवः सुखमात्मनः // व्याधैर्विलुप्यमानस्य प्रकिनाराचतोमरैः / यत्सुखं हरिणस्येह तत्सुखं भूप गेहिनाम् // गलेन ग्रह्यमाणस्य निर्भिन्ने तालुमर्मके / For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy