________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 775 इत्येवं विमलो यावत्सद्भावार्पितमानसः / भूतनाथमभिष्टुत्य पञ्चाङ्गप्रणतिं गतः // तावदुल्लासितानन्दपुलको दसुन्दरः / संतुष्टस्तस्य भारत्या रत्नचूडः स खेचरः // साधु साधु कृतं धौर स्तवनं भवभेदिनः / त्वयेत्येव ब्रुवाणोऽसौ प्रादुगसौत्तदा पुनः // धन्यस्वं कृतकृत्यस्त्वं जातोऽसि त्वं महौतले / यस्येदृशौ महाभाग भनिर्भुवनबान्धवे // मुक्त एवासि समारानिश्चितस्वं नरोत्तम / प्राप्य चिन्तामणिं नैव नरो दारिद्यमहति // एवं च कलवाक्येन विमलं खचराधिपः / अभिनन्द्य ततो माथं वन्दित्वा भक्रिनिर्भरः // तदन्ते विमलस्योच्चैर्वन्दनं प्रविधाय सः / प्रथमं वन्दितस्तेन निविष्टः शुद्धभूतले // ततो विहितकर्तव्या निषला चतमञ्जरी / विद्याधरनरेन्द्राश्च निषणा नतमस्तकाः // अथ पृष्टतनूदन्तौ जाततोषौ परस्परम् / विमलो रवडश्च सम्भाषं कर्तुमुद्यतौ // उक्तं च रत्नचूडेन महाभाग निशम्यताम् / हेतुना येन संजातं मम कालविलम्बनम् // नानौतो भवदादिष्टः स सूरिबंधनामकः / तत्रापि कारणं किंचिन्महाभाग निशामय // For Private and Personal Use Only