SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 751 अहो अपूर्व माहात्म्यमहो निःस्पृहतातस्ता / इदमस्य कुमारस्य लोकातीतं विचेष्टितम् // यद्वा यम्येदृशं जातं चित्तरत्नं महात्मनः / तस्यास्य बाबेर्लोकेऽत्र किं वा रत्नैः प्रयोजनम् // एतदेवं विधं चित्तं जायते पुण्यकर्मणाम् / प्रायोऽनेकभवेर्धर्मकर्मरजितचेतमाम् // ये तु पापाः सदा जीवाः शुद्धधर्मबहिष्कृताः / तेषां न संभवेत्यायो निर्मलं चित्तमौदृशम् // ततश्चैवमवधार्य चिन्तितं रत्नचूडेन / श्रये पृच्छामि तावेदनमस्य कुमारस्य सहचरं। यद्त कुत्रत्योऽयं कुमारः किनामा किंगोत्रः किमर्थमिहागतः किं वास्यानुष्ठानमिति। ततः पृष्टोऽहं यथाविवक्षितमेकान्ते कृत्वा रत्नचडेन। मयापि कथितं तस्मै / यया। अत्रैव वर्धमानपुरे क्षत्रियस्य धवलनृपतेः पुत्रोऽयं विमलो नाम / अभिहितं चाद्यानेन / यथा वयस्य वामदेव यदिदं क्रीडानन्दनमुद्यानमतिरमणीयं जनवादेन श्रूयते तन्मम जन्मापूर्वं ततो ऽद्य गच्छावस्तद्दर्शनार्थ / मयोक्तं / यदाज्ञापयति कुमारः। ततः समागताविह / श्रुतो युवयोः शब्दः। तदनुमारेण गच्छद्भ्यां दृष्टा पदपद्धतिः / तया लक्षितं नरमिथुनं / ततो लताग्रहके दृष्टौ युवां / निरूपितौ कुमारेण / कथितं मे लक्षणं / निर्दिष्टं च यथायं चक्रवर्तीयं चास्यैव भार्या भविष्यति। तदिदमिहास्यागमनप्रयोजन। अनुष्ठानं पुनरस्य सर्वं यथा चेष्टितं सापनीयं विदुशमभिमतं लोकानामाह्लादकं बन्धूनामभिरुचितं वयस्थानां स्पक्षणीयं मुनीना For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy