SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / बन्धुर्धाता पिता माता जीवितं च नरोत्तम / त्वं मे येन प्रिया धीर रचितेयं मम वया // अथवा। दागोऽहं किङ्करो वयः प्रेव्यस्ते कर्मकारकः / तद्दौ यतां ममादेशः किं करोमि तव प्रियम् // विमलेनोकं / महासत्त्व अलमत्र सम्भमेण / के वयमत्र रक्षित। रक्षितेयं स्वमाहात्म्येनैव भवता। केवलं महत्कौतुकं मे। कथयतु भद्रः कोऽयं वृत्तान्तः किं वा ते गतस्य संपन्न मिति / तेनोक्तं / यद्येवं ततो निषौदत कुमारः। महतोयं कथा / ततो निषमाः सर्वेऽपि लताग्रहके / स प्राह / कुमाराकर्णय / अस्ति शरच्छशाधरकरनिकरधवलो रजतमयो वैताब्यो नान पर्वतः। तत्र चोत्तरदक्षिणे दे श्रेणी। तयोश्च षष्टिः पञ्चाशच यथाक्रमं विद्याधरपुराणि वसन्ति / तत्र दक्षिणश्रेषशामस्ति गगनशेखरं नाम पुरं / तत्र मणिप्रभो राजा / तस्य कनकशिखा देवी। तस्याश्च रत्नशेखरस्तनयो रत्नशिखामणिशिखे च दुहितरौ। तत्र रत्नशिखा मेघनादस्य दत्ता मणिशिखा त्वमितप्रभम्य / ततस्तयो रत्नशिखामेघनादयोर्जातोऽहं तनयः / प्रतिष्ठितं मे नाम रत्नचूड इति / मणि शिखा मितप्रभयोस्तु द्वौ सूनू जातावचलश्च चपलश्च / रत्नखरस्य च रतिकान्ता पनौ। तस्यायमेका चूतमचरी दुहिता जातेति। सहकौडितानि सर्वाण्यपि वयं बालकाले / प्राप्तानि कुमारभावं। ग्टहीताः कुलक्रमायाता विद्याः। इतश्च रत्नशेखरस्य बालवयस्योऽस्ति चन्दनो नाम सिद्धपुत्रकः / स च / For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy