________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / तच कीदृशम् / अशोकनागपुन्नागबकुलाङ्कोलराजितम् / चन्दनागरुकर्पूरतरुपण्डमनोहरम् // द्राक्षामण्डपविस्तारवारितातपसुन्दरम् / विलमत्केतकौगन्धरड्यान्धीकृतषट्पदम् // अनेकतालहितालनालिकेरमहाद्रुमैः / यदाहयति हस्ताभैः सम्पर्धमिव नन्दनम् // अपि च / विविधाडतचतलताग्रहकं क्वचिदागतसारमहंसबकम् / सुमनोहरगन्धरणड्वमरं द्युमदामपि विस्मयतोषकरम् // स च तत्र मया सहितो विमलः सरलो मनसा बहुपूतमलः / उपगत्य तदा सुचिरं विजने रमते स्म मृगाक्षि मनोज्ञवने // अत्रान्तरे किं संपन्न / नूपुरारवसंमिश्रः माशको निभृतो ध्वनिः / कयोचिजल्पतोर्दूरादागतः कर्णकोटरम् // ततो विमलेनाभिहितं / वयस्य वामदेव कस्यायं ध्वनिः श्रूयते / मयोक्तं / कुमार अस्फुटाक्षरतया न सम्यङ् मयापि लक्षितो बहनां चात्र ध्वनिः संभाव्यते / यतोऽत्र काननाभोगे विचरन्ति यक्षाः परिभ्रमन्ति नरवराः संभाव्यन्ते विबुधा रमन्ते मिद्धा हिण्डन्ति पिशाचा: संभवन्ति भूता गायन्ति किन्नराः पर्यटन्ति राक्षसा निवसन्ति किम्पुरुषा विलसन्ति महोरगा ललन्ते गान्धर्वाः कौडन्ति विद्याधराः / तस्मात्पुरतो गत्वा निरूपयावः येन निश्ची For Private and Personal Use Only