________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ पञ्चमः प्रस्तावः / अथ तल्लोकविख्यातं सर्वसौन्दर्यमन्दिरम् / बहिरङ्ग जगत्यस्ति वर्धमानं पुरोत्तमम् // पूर्वाभाषौ शचिः प्राज्ञो दक्षिणो जातिवत्सलः / नरवर्गः सदा यत्र जैनधर्मपरायणः // विनौतः शौलसंपन्नः सर्वावयवसुन्दरः / मल्लनाभूषणो यत्र धार्मिकः सुन्दरौजनः / तत्र दर्पोद्धरारातिकरिकुम्भविदारण: / अभूबिया॑जसदौर्यो धवलो नाम भूपतिः // यः शशाङ्कायते नित्यं स्वबन्धुकुमुदाकरे / कठोरभास्कराकारं बिभर्ति रिपुतामसे // तस्यास्ति सर्वदेवीनां मध्ये लधपताकिका / सौन्दर्यशौलपूर्णङ्गो देवी कमलसुन्दरौ / तस्या गर्ने समुद्भूतः सद्भूतगुणमन्दिरम् / सुतोऽस्ति विमलो नाम तयोर्दैवीनरेन्द्रयोः // यस्तदा बालकालेऽपि वर्तमानो महामतिः / लघुकर्मतया धन्यो न स्पष्टो बालचेष्टितैः // अथ तत्र पुरे ख्यातः समस्तजनपूजितः / / अद्भूतहितः श्रेष्ठौ मोमदेवो महाधनः // धनेन धनदं धन्यो रूपेण मकरध्वजम् / For Private and Personal Use Only