SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / भार्यादोषेण यो नाम प्रव्रज्यां समुपागतः / न च सापि परित्यक्ता सर्वथा येन पापिनी / / यश्च पालयतेऽद्यापि कुटुम्वं तदवस्थितम् / तस्य मे कीदृशी नाम प्रव्रज्या भूप कथ्यताम् // तथापि ते महाराज यन्ममोपरि गौरवम् / तर्कयनपि तचाहं न जाने बत कारणम् // यतः / सदोषेऽपि गुणारोपी जगदाल्हादकारकः / किमेषोऽचिन्यसौन्दर्यः सज्जनप्रकृतेर्गणः / तथाहि / नूनमेषा सतां दृष्टिश्चापयष्टिरपूर्विका / / अकारणेऽपि या नित्यं गुणारोपपरायणा // किं वा भुवनवन्द्यस्य गुणोऽयं हतविद्विषः / अस्यैव जैनलिङ्गस्य यत्रेते संस्थिता वयम् // तथाहि। सुरेन्द्रा अपि वन्दन्ते तं भक्तिभरपूरिताः / करस्थं यस्य पश्यन्ति जैनेन्द्र लिङ्गमञ्जमा // किं वान्यत्कारणं किंचिद्गृहस्थाचारधारकः / येनेदृशोऽपि ते राजनहं दुष्करकारकः // एवं च वदति भगवति विगलितमदचेतसि विचक्षणमूरौ नरवाहनराजेन चिन्तितं / अहो निजचरितकथनेन भगवता जनितो मे मोहविलयः। अहो भगवतां वचनविन्यासः / अहो For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy