SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / स्तपातकानि भाषते निःशेषासभ्यालोकवचनानि न मुच्यतेऽनवरतं रौद्रध्यानेन म एव चाकाण्ड एव कुतश्चिनिमित्ताच्छुभसमाचार दुव सत्यप्रियंवद इव प्रशान्तचित्त व पुनर्लक्ष्यते तदा भवत्येव पौर्वापर्यपर्यालोचनचतुराणां विवेकिनां मनसि वितर्को यदुत न तावत्मुन्दरा मनोवाक्कायप्रवृत्तिः सद्धर्मसाधिका भगवदनुग्रहव्यतिरेकेण कस्यचित्संपद्यते अयं चेह भव एवातिक्लिष्टमनोवाक्कायप्रमरोऽवधारितोऽस्माभिः / तदिदं पूर्वापरविरुद्धमिव प्रतिभासते / यतः कथमेवंविधपापोपहतमत्वे भगवदवलोकना प्रवर्त्तते / सा हि प्रवर्त्तमाना जीवस्य मोक्षसम्पादकत्वेन त्रिभुवननाथत्वमक्षेपेण जनयति। तस्मान्नात्र तस्याः सम्भवो लक्ष्यते / यतश्चास्य सुन्दरमनोवाकायप्रवृत्तिलेशो दृश्यते ततोऽन्यथानुपपत्या भगवदवलोकनायाः सद्भावोऽत्र निश्चीयते। तदिदमवलब्धं सन्देहविच्छेदकारणम् / अस्माकं मनो दोलायते किमिदमाश्चर्यमित्याकूते / यथा च / तेन तात्पयेण पर्यालोचयता महानमनियुक्तकेन पश्चानिश्चितम् / यदुत सम्भवतोऽस्य द्रमकस्य दे कारणे महानरेन्द्रावलोकनायास्तेन युक्तियुक्त एवास्य परमेश्वरस्य पारमेश्वरो दृष्टिपातस्तत्र / यस्मादेष सुपरीक्षितकारिण स्वकर्मविवरेण द्वारपाले नात्र भवने प्रवेशितः तेनोचित एवायं विशेषदृष्टरित्येकं कारणं यथा यस्यैतद्भवनमालोक्य नरस्य मनःप्रमादो जायते स महानरेन्द्रस्यात्यन्तवल्लभ इति प्रागेव विनिश्चितमिदं मया संजातश्चास्य मन:प्रमादो लक्ष्यते यतो नेत्ररोगपीडाभराक्रान्ते अपि लोचने भवनदिदृपया प्रतिक्षणमयमुन्मौलयति तद्दर्शनेन वीभत्मदर्शनमप्यस्य वदनं सहसा प्रसाद For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy