SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उमितिभवप्रपञ्चा कथा / पुनरचजैनेन्द्रशासनभवने सामान्यभिक्षवो जातव्याः / यतस्ते दत्तावघानाः संपादयन्याचार्यादेशं कुर्वन्धुपाध्यायाज्ञां विदधति गौतार्थवृषभविनयं न लङ्घयति गणचिन्तकप्रयुनामयंदा नियोजयन्धात्मानं गच्छकुलगणसङ्घप्रयोजनेषु स्वजीवितव्यव्ययेनापि निर्वहन्ति तेषामेव गच्छादौनामभिवाद्यपायव्यतिकरेषु / अत एव ते शूरताभकताविनीततास्वभावादलं तलवर्गिकशब्दवाच्याः / यतश्चेदं मौनौन्द्रशासनभवनमनुज्ञातं सूरोणां चिन्त्यते / सदपाध्यायै रक्ष्यते / गौतार्थवृषभैः परिपुष्टिं नौयते। गणचिन्तकैर्विहितनिश्चिन्तसमस्तव्यापार सामान्यसाधुभिरतस्तैरनधिष्ठितमित्युच्यते / साम्प्रतं यदुक्तंस्थविराजनमनाथमिति / तदत्रापि जिनमङ्घमदने योजनीयम् / तत्रेह स्थविरा जनाः खल्वार्या लोका मन्तव्याः / तथा हि / ते तत्र राजमन्दरे प्रमत्तप्रमदालोकनिवारणपरायणा निवृत्तविषयामङ्गाश्च व्यावर्णिताः। एतच्चोभयमपि निरुपचरितमार्यलोकानामेव घटामाटोकते / यतस्त एव धर्मकार्यषु प्रमादपरतन्त्रतया मौदन्तं श्रवणोपासकललनालोकमात्मीयशिथिकावर्ग च परोपकारकरणव्यमनितया भगवदागमाभिहितं महानिर्जराकारणं माधर्मिकवात्सल्यं चानुपालयन्तः स्मारणवारणचोदनादानद्वारेण कापथप्रस्थितमनवरतं निवारयन्ति मन्मार्ग चावतारयन्ति / त एव च विदितविषयविषविषमविपाकतया विषयेभ्यो निवृत्तचित्ताः सन्तो रमन्ते संयमे कौडन्ति तपोविशेष विधानः रज्यन्ते नारतखाध्यायकरणे न सेवन्ते प्रमादवन्दं समाचरन्ति निर्विचारमाचार्यादेशमिति / यच्चोकम् सभटमंघाताकीर्ण तद्राजभवनमिति / तेऽत्र For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy