________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / પૂરતું विविधखाद्यपेयानि भक्षयनास्ते / ततः संजातं महाजीणं प्रकुपिता दोषाः संपन्नोऽन्तर्लोनो ज्वरः। तथापि न विच्छिद्यते तस्याहाराभिलाषः। प्रवृत्ता चोद्यानिकागमनेच्छा। ततः कारिता भूरिप्रकारा भक्ष्यविशेषाः / तांश्च पश्यतस्तस्य एनमेनं च भक्षयिष्यामौति प्रवर्तन्ते चित्तकल्लोलाः। लौह्यातिरेकेण च भक्षितं सर्वेषामाहारविशेषाणां स्तोकस्तोकं / ततः परिवेष्टितो मित्रवृन्देन परिकरितोऽन्तःपुरेण पठता बन्दिवृन्देन ददद्दानं विविधैर्विलासैमहता विमर्दन प्राप्तो मनोरमे कानने। निविष्टं सुखमासनं / तत्र चोपविष्टस्य विरचिताः पुरतो विविधाहारविस्ताराः / ततश्वाहारलेशभक्षणेन पवनस्पर्शादिना गाढतरं प्रवृद्धो ज्वरः / लक्षितश्च पार्श्ववर्तिना समयज्ञाभिधानेन महावैद्यसुतेन / यदुतातरवदनो दृश्यते कुमारः। ततो दत्तस्तेन शङ्खयोहस्तः / निरूपितानि सन्धिस्थानानि। निश्चितमनेन / यथा ज्वरितः खल्वयं कुमारः / ततोऽभिहितं ममयज्ञेन / देव न युक्तं तव भो। प्रबलज्वरं ते शरीरं वर्तते / यतोऽत्यन्तमातुरा घूर्ण ते दृष्टिः। श्राताम्रस्निग्धं वदनकमलं / द्रगट्रगायेते गङ्खौ। ध धमायन्ते सन्धिस्थानानि / ज्वलतीव बहिस्त्वम् / दहतीव हस्तं। ततो निवर्तख भोजनात् / गच्छ प्रच्छन्नापवरके। भजस्व निवातं। कुरुष्व लवनानि / पिब कथितमुदकं / समाचर विधिनास्य सवी प्रतिक्रियामितरथा मनिपातस्ते भविष्यति // स तु वेल्लहलो दत्तदृष्टिः पुरतो विन्यस्त तस्मिन्नाहारविस्तारे एतदेतच्च भक्षयामौति भ्रमयन्नपरापरेषु खाद्यप्रकारेषु खोयमन्तःकरणं नाकर्णयति तत्तदा वैद्यसुतभाषितं For Private And Personal Use Only