SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 515 बधिरः सदाशिवो नाम भौताचार्यः। स च जराजौर्णकपोल: सन्नुपहासपरेण हस्तसंज्ञयाभिहितः केनचिर्तबटुना। यथा भट्टारक किल्लैवं नौतिशास्त्रेषु पयते / यदुत / विषं गोष्ठी दरिद्रस्य जन्तोः पापरतिर्विषम् / विषं परे रता भार्या विषं व्याधिरुपेक्षितः / / अतः शीघ्रमस्य बाधिर्यस्य करोत् किंचिदौषधं भट्टारकः / न खलपेक्षितुं युक्तोऽयं महाव्याधिः / ततः प्रविष्टो भौताचार्यस्य मनसि स एवाग्रहविशेषः। ततोऽभिहितोऽनेन शान्तिशिवो नाम निजशिय्यः / यदुत गच्छ वं वैद्यभवने मदीयबधिरत्वस्य विज्ञाय भेषजं ग्टहीत्वा च तत्तूर्णमागच्छ। मा भूत्कालहरणेन व्याधिद्धिरिति। शान्तिशिवेनाभिहितं / यदाज्ञापयति भट्टारकः / ततः प्राप्तोऽसौ वैद्यभवने / दृष्टो वैद्यः / इतश्च बहती वेलां रमणं विधाय दारात्ममागतो वैद्यपुत्रः / ततः क्रोधान्धबुद्धिना वैद्येन ग्रहौतातिपरुषा वालमयी रज्जुः / बद्धश्चारटनमौ निजदारकः स्तम्भके / ग्टहीतो लकुटः / ताडयितुमारब्धः। ताद्यमाने च निर्दयं तत्र दारके शान्तिशिवः प्राह / वैद्य किमित्येनमेवं ताडयसि / देवेनोक्तं / न श्टणोति कथंचिदप्येष पापः / अचान्तरे हाहारवं कुर्वाणा वेगेनागत्य लग्ना वैद्यस्य हस्ते वारणार्थं भार्या / वैद्यः प्राह। मारणीयो मयायं दुरात्मा यो ममैवं कुर्वतोऽपि न श्टणोति। अपसरापसर त्वमितरथा तवापौयमेव गतिः / तथापि लगन्तौ ताडिता मापि वैद्यन / शान्तिभिवेन चिन्तितं / श्रये विज्ञातं भट्टारकस्यौषधं / किमधुना पृष्टेन / ततो निर्गत्य For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy