________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 उपमितिभवप्रपञ्चा कथा / कमलपण्डभूषितमरोवराणि निरीक्षमाणे प्रमुदितानि ग्रामाकरनगराणि हष्टौ शक्रोत्मवदर्शनेन तुष्टौ दौपालिकावलोकनेन पाल्हादितौ कौमुदौनिरीक्षणेन परीक्षमाणौ जनहृदयानि प्रयुमानौ स्वप्रयोजनसियर्थमुपायशतानि विचरितौ बहिरङ्ग देशेषु विमर्शप्रकर्षों / न दृष्टं क्वचिदपि रमनायाः कुलं / तथा च विचरतोस्तयोः समायातो हेमन्तः / कीदृशश्चासौ / अर्घितचेलतैलवरकम्बलरलकचित्रभानुको विकसिततिलकलोध्रवरकुन्दमनोहरमल्लिकावनः / शीतलपवनविहितपथिकस्फुटवादितदन्तवीणको जलशशिकिरणहम्य॑तलचन्दनमौक्रिकसुभगताहरः // यत्र च हेमन्ते दुर्जनमङ्गतानौव इखतमानि दिनानि सज्जनमैत्रीव दीर्घतरा रजन्यः सज्ज्ञानानौव संग्टह्यन्ते धान्यानि काव्यपद्धतय व विरच्यन्ते मनोहरा वेण्यः सुजनहृदयानीव विधीयन्ते खेहमाराणि वदनानि परबलकलकलेन रणशिरसि सुभटा इव निवर्तन्ते दवौयोदेशगता अपि निजदयिताविकटनितम्बबिम्बपयोधरभरगौतहरोभसंस्मरणेन पथिकलोका इति / प्रतापहानिः संपन्ना लाघवं च दिवाकरे / अथवा / दक्षिणाशावलग्नस्थ सर्वस्यापीदृशी गतिः // अन्यच्च / अयं हेमन्तो दुर्गतलोकान् प्रियवियोगभुजङ्गनिपातितान् शिशिरमारुतखण्डितविग्रहान् / पशुगणानिव मुर्मुरराशिभिः पचति किं निशि भक्षणकाम्यया // For Private And Personal Use Only