________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 436 उमितिभवप्रपञ्चा कथा / चतुर्थः प्रस्तावः / अथ विख्यातमौन्दर्य मपुण्यजनसेविते / सिद्धार्थनगरे तत्र भूपोऽभून्नरवाहनः / यस्तेजसा महस्रांशं गाम्भीर्यण महोदधिम् / स्थैर्येण शैलराजेन्द्र जयति स्म महाबलः // येन बन्धुषु चन्द्रत्वं शत्रुवंशे कृशानुता / प्रदर्शितात्मनो नित्यं धनेन धनदायितम् // तस्य रूपयशोवंशविभवैरनुरूपताम् / दधानामोन्महादेवी नाम्ना विमलमालती // मा चन्द्रिकेव चन्द्रस्य पद्मेव जलजन्मनः / तस्य राज्ञः मदा देवी हृदयान्न विनिर्गता // ततोऽग्टहीतमङ्केते तदानौं निजभार्यया / सह पुण्योदयेनाहं तस्याः कुक्षौ प्रवेशितः // अथ संपूर्णकालेन सर्वावयवसुन्दरः / निष्क्रान्तोऽहमभिव्यकरूपश्छन्नस्तथेतरः / / ततो मामुपलभ्यामौ देवौ विमलमालती। मंजातः किल पुत्रो मे परं हर्षमुपागता || ततो निवेदितो राजे तुष्टोऽसावपि चेतमा। मंजातो नगरानन्दः कृतो जन्ममहोत्सवः / / For Private And Personal Use Only