SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतौयः प्रस्तावः। मया तदात्तीपलंभार्थं पुरुषाः / तैश्चागत्य निवेदितं / यथा देव तज्जयस्थलं भस्मीभूतं दवदग्धस्थलमात्रमधुना वर्तते / छिन्नमण्डलं च तत्तेन न विद्यन्ते प्रत्यामन्नान्यन्यग्रामनगराणि / अरण्यप्रायः मोऽधुना देशों वर्तते / तथा वार्तामात्रमपि. नास्माभिरुपलब्ध कथं तत्तथाभृतं संजातमिति / ततो मया चिन्तितं। हा कष्टमहो कष्टं / किं पुनरत्र कारणं / किमकाण्ड एव तत्रोत्पाताङ्गारवृष्टिर्निपतिता किं वा पूर्वविरुद्धदेवेन भस्मौकृतं नगरं / उत मुनिना केनचित्कोपामिना दग्नं / पाहोस्वित् क्षेमवहिना चौरादिभिर्वा / ततश्चाविज्ञातपरमार्थः समन्देहः शोकापन्नश्च स्थितोऽहमेतावन्तं कालं / अधुना भगवति दृष्टे संजातः शोकापनोदः / सन्देहः पुनरद्यापि मे नापगच्छति / तमपनयतु भगवानिति // भगवताभिहितं / महाराज पश्यसि त्वमेनं पर्षदः प्रत्यासन्नं नियन्त्रितं पश्चादाहुबन्धेन निबद्धवत्रा विवरं तिरश्चीनं पुरुषं / नृपतिनाभिहितं / सुष्टु पश्यामि। भगवानाह / महाराज एतेन भस्मौकृतं नगरं / नृपतिराह / भदन्त कोऽयं पुरुषः / भगवानाह। महाराज स एवायं तव जामाता नन्दिवर्धनकुमारः। नृपतिराह / कथं पुनरनेनेदमौदृशं व्यवसितं। किमिति वायमेवंविधावस्थोऽधुना वर्तते / ततः कथितो भगवता स्फुटवचनविरोधादिकश्चरटमनुष्यपरित्यागपर्यवसानः सर्वोऽपि नरपतये मदीयवृत्तान्तः / तमाकर्ण्य विस्मितो राजा परिषच्च / नृपतिना चिन्तितं / किं छोटयाम्यस्य वदनं / करोमि मुत्कलं बाहुयुगलं / अथवा नहि नहि / निवेदितमेवास्य चरितं भगवता / तदेष For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy