________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 402 उपमितिभवप्रपचा कथा। कार्यमित्यारटति। ततः समुदौर्णखड्गो वलितोऽहं ताताभिमुखं / कृतो लोकेन कोलाहलः / ततो मया न मतं जनकत्वं न लक्षिता स्नेहनिर्भरता न गणितं परमोपकारित्वं नालोचितो महापापागमः / सर्वथा वैश्वानरहिंसावशीभूतचित्तेनावलम्य कर्मचाण्डालतां तथैव रटतस्तातस्य त्रोटितमुत्तमाङ्गं / ततो हा जात हा जात मा माहसं मा माहसं चायध्वं लोकास्त्रायध्वमिति विमुक्तकरुणाकन्दरवा श्रागत्य लग्ना ममाम्बा करे करवालोद्दालनार्थ / मया चिन्तितं। इयमपि पापा मम वैरिणव वर्तते येवं शत्रच्छेदपरेऽपि मयि लकशकायते / ततः चता मापि वेधा करवालेन / ततो हा भ्रातर्हा कुमार हा आर्यपुत्र किमिदमारब्धमिति पूत्कुर्वाणानि शौलवर्धनो मणिमञ्जरी रत्नवतौ च लगानि बौयपि मम भुजयोरेककालमेव निवारणार्थ / मया चिन्तितं / एकालोचितं नूनममौषां सर्वेषामपि दुरात्मनां / ततो गाढतरं परिज्वलितोऽहं / नीतानि त्रौण्यप्येकैकप्रहारेणान्तकमदनं // अत्रान्तरेऽमुं व्यतिकरमाकर्ण्य हा आर्यपुत्र किमिदं किमिदमिति प्रलपन्तौ प्राप्ता कनकमञ्जरौ। मया चिन्तितं। अये एषापि पापा मवैरिणामेव मिलिता येवं विक्रोशति। अहो हृदयमपि मे वैरिभूतं वर्तते / तकिमनेन / अपनयाम्यस्या अपि बन्धुवत्मलत्वं / ततो विगलितप्रेमाबन्धे विस्मृता तद्विरहकातरता। न स्फुरितानि हृदये विश्रयजल्पितानि / अपहस्तिता रतिसुखमन्दोहाः / न पर्यालोचितस्तस्याः सम्बन्धी निरुपमः स्नेहाबन्धः / सर्वथा वैश्वानरान्धबुद्धिना हिंसाक्रोडौकतहदयेन मया विदलिता करवालेन वराको कनकमञ्जरी। For Private And Personal Use Only