________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / कुतूहलवशेनाथ वीक्षमाणेन सर्वतः / गवाक्षे लीलया दृष्टिर्मया तत्र निपातिता // ततः कनकमचर्या लोललोचनमौलिता। क्षणं मा मामिका दृष्टिश्चलति स्म न कौलिता // सापि तां मामिकां दृष्टिं पिबन्ती स्तिमितेक्षणा / खेदकम्पनरोमाञ्चैयतकामा क्षणं स्थिता // मम तस्याश्च मानन्दं दृष्टिसंयोगदौपितम् / मदीयमारथिर्भावं तेतलिस्तमलक्षयत् // ततश्चिन्तितं तेतलिना / अये रतिमकरकेतनयोरिवातिसुन्दरोयमनयोरनुरागविशेषः। केवलं महाजनसमक्षमेवमनिमेषाचतया निरीक्षमाणस्यैनां होनसत्त्वतया लाघवमस्य संपत्स्यते / रत्नवत्याश्च कदाचिदी• संपद्येत / ततो न मे युक्तमुपेचितुमिति / ततः काकलौं कृत्वा चोदितस्तेतलिना स्यन्दनः / ततोऽहं लावण्यामृतपशमनामिव कपोलपुलककण्टकलग्नामिव मदनशरशलाकाकोलितामिव तदीयसौभाग्य गुणस्यतामिव कनकमञ्जरोवदनकमलावलोकनात् कथंचिदृष्टिमावष्य तस्यामेव निक्षिप्तहृदयः प्राप्तः क्रमेण निजमन्दिरे। तत्र च शून्यमनस्कोविधाय दिवमोचितं कर्तव्यमारूढो ऽहमुपरितनभूमिकायां / ततः प्रस्थाप्य समस्तं परिजनमेकाको निषणः शय्यायां / तस्यां चापरापरैः कनकमञ्जरौगोचरैर्वितर्ककल्लोलैर्विधरितचेतोवृत्तिर्न जानामि स्माहं / यदुत किमागतोऽस्मि / किं गतोऽस्मि / किं तत्रैव स्थितोऽस्मि / किमेककोऽस्मि / किं परिजनतोऽस्मि / किं सुप्तोऽस्मि किं वा जागर्मि। किं रोदिमि For Private And Personal Use Only