SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / संसारिपाणिनां प्रभवत एव / यतो योगिनीयमकुशलमाला योगेश्वरश्चायं स्पर्शनो। योगिनां च भवत्येवेदृशौ शक्तिः यथा क्वचिदभिव्यक्तरूपता क्वचिदनाविर्भूता वर्तते / नृपतिनाभिहितम् / भगवन्ननयोः किमस्मद्रोचरोऽस्ति प्रभावो / भगवानाह बाढमस्ति // ततो राजा मन्त्रिणं प्रत्याह। मखे पापयोरनयोरमर्दितयोः कौदृशौ ममाद्यापि शत्रुमर्दनता। ततो न युक्तं यद्यपि भगवत्ममीपस्थैरेवंविधं जल्पितुं तथापि दुष्टनिग्रहो राज्ञां धर्म इति कृत्वेदमभिधीयते। तदाकर्णयत्वार्यः / सुबुद्धिनाभिहितं / समादिशतु देवो। राज्ञाभिहितमादिष्टमेतत्तावद्भगवता यथैते स्पर्शनाकुशलमाले अनेन पुरुषेण सह यास्यतः। ततो नेदानौं तावदेते वधमर्हतः / केवलं समाज्ञापय त्वमेते। यथा मद्विषयानिर्गत्य युवाभ्यां दूरतोऽपि दूरं गन्तव्यं / मृतेऽप्यस्मिन् पुरुषे नास्माकौनविषये प्रवेष्टव्यमितरथा युवयोरस्माभिः शारौरो दण्डः करिष्यते / अथैवमप्यादिष्टे पुनरेते अस्मादिषये प्रविशेतां ततो भवता निर्विचारं लोहयन्त्रेण पौडनीये। एवमतिदुश्योरारटतोरण्यनयोरुपरि नेषदपि दया विधेया // सुबुद्धिना चिन्तितं / अहो देवस्यानयोरुपर्यावेगातिशयः / यतोऽस्य तदशेन विस्मृतं तदपि हिंस्रकर्मणि न भवन्तं योक्ष्य इति मगोचरं वरप्रदानं / भवतु तथापौदमेव प्रतिबोधकारणं भगवन्तः कल्पयिष्यन्ति / मम त्वाज्ञाप्रतिपत्तिरेव ज्यायसीति विचिन्याभिहितमनेन। यदाज्ञापयति देवः // ततः प्रपन्नोऽसौ तयोराज्ञापनार्थं सूरिणाभिहितं। महाराजालमनयोरेवं ज्ञापनेन / न खल्वेतयोरयमुन्मलनोपायो / यतोऽन्त For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy