SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / तेनापि कथिता तस्मै बालेनात्मविडम्बना // न शिक्षणस्य योग्योऽयं मत्वा मध्यबुद्धिना / ततस्तदनुरोधेन लतेषत्परिदेवना // ततश्चर्णितमर्वाङ्गो दुःखविव्हलमानसः / तथा राजभयादग्राद् बालस्तत्रैव मंश्रितः // प्रच्छन्नरूपः मततं न निर्गच्छति कुत्रचित् / एवं च तिष्ठतो: कालस्तयोर्भूयान् विलंधितः // अथान्यदा निजविलसिताभिधाने जौणेद्याने गन्धहस्तीव वरकलभवन्देन परिकरितः मातिशयगुणवता निजशिष्यवर्गण प्रवाहः करुणारसस्य संतरणमेतुः संमारसिन्धोः परशस्तष्णालतागहनस्य अशनिर्मानपर्वतोद्दलने मूलमुपशमतरोः मागरः सन्तोषामतस्य तीर्थ मर्दविद्यावताराणां कुलभवनमाचाराणां नाभिः प्रज्ञाचक्रस्य वडवानलो लोभार्णवस्य महामन्त्रः क्रोधभुजङ्गस्य दिवसकरो महामोहान्धकारस्य निकषोपलः शास्त्ररत्नानां दावानलो रागपल्लवदहने अर्गलाबन्धो नरकवाराणां देशकः सत्पथानां निधिः सातिशयज्ञानमणौनामायतनं समस्तगुणानां समवसृतस्तत्र पुरे प्रबोधनरपतिर्नामाचार्यः / इतश्च स्पर्शनं प्रतिकूलचारिणमुपलभ्य मनौषिणं प्रादुरभूत्कर्मविलासस्य तस्योपरि खरतरः पक्षपातः / ततोऽसौ शुभसुन्दरौं प्रत्याह प्रिये लक्षयत्येव तावदिदं भवती यथानादिरूढा प्रकृतिरियं मम वर्त्तते / यदुत योऽस्य स्पर्शनस्थानुकूलस्तस्य मया प्रतिकूलेन भाव्यं प्रतिकूलस्य पुनरनुकूलतया वर्तितव्यं मम च प्रतिकूलमाचरतः सर्वत्राकुशलमालोपकरणं अनु For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy