SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 277 सुबुद्धिर्नामामात्यः केवलं तेन क्वचिदवसरे वरं प्रार्थितो राजा। घदुत हिंस्रकर्मणि नाहं पर्यालोचनीयो भवता प्रतिपन्नश्च स वरो नरपतिना ततः सुबुद्धिं पर्यालोच्यैव दत्तः शत्रुमर्दनेन राजपुरूषाणां नियमो यद्त कदर्थयित्वा बहुप्रकारमेनं नगरापसदं व्यापादयतेति / तदाकर्ण्य महाराज्यलाभ व जातो जनानां प्रमोदातिशयः / ततः समारोपितो रासभे विडम्ब्यमानः शरावमालया समन्ताचूीमानो यष्टिमुष्टिमहालोष्ट्रप्रहारै रोरूयमाणो विरमध्वनिना तुद्यमानो मनसि कर्णकटुकेराक्रोशवचनैर्महता कलकलेन समस्तेषु त्रिकचतुष्कचत्वरहट्टमार्गादिषु बंभ्रम्यमाणो विगोपितो बालः। ततो विशालतया नगरस्य प्रेक्षणकप्रायत्वात्तस्य भ्रमणेनैवातिक्रान्तं दिनं सन्ध्यायां नौतो वध्यस्थानं उल्लंबितस्तरुणाखायां प्रविष्टो नगरं लोको भवितव्यताविशेषेण तस्य त्रुटितः पाशकः पतितो भूतले गतो मूच्छां स्थितो मृतरूपतया लुप्तो वायुना लब्धा चेतना प्रवृत्तो ग्टहाभिमुखं गन्तुं भूमिकषणेन कूजमानः / अत्रान्तर अग्टहीतसङ्केतयोक्तं हे संसारिजौव तत्र चितिप्रतिष्ठितपुरे प्रथमं भवता वौर्यनिधानभूतः कर्मविलामो नाम राजा निवेदितः / अधुना दशापराधप्रभविष्णुरेष शत्रुमर्दनो निवेद्यते तत्कथमेतदिति / संसारिजीवेनाभिहितं मुग्धे मयापि नन्दिवर्द्धनेन मता पृष्ट एवेदं विदुरस्ततो विदुरेणाभिहितं कुमारकर्मविलामस्तचान्तरङ्गो राजा शत्रमदनस्तु बहिरङ्गः तेन नास्ति विरोधः / यतो बहिरङ्गाणामेव राज्ञां दशापराधप्रभविष्णता भवति बहिरङ्गनगरेषु नेतरेषां ते हि केवलं सुन्दरासुन्दरप्रयोजनानि जनानां प्रच्छन्नरूपा एव मन्तः For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy