SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 उपमितिभवप्रपञ्चा कथा / तेनाभिहितं देव बाढमुत्सर्पति यमदनुभावेन तातेनाभिहितं किं परिणताः काश्चिनन्दिवर्द्धनकुमारस्य कलाः कलाचार्यणाभिहितं सुष्ट परिणताः देव निष्पन्न एव कलासु नन्दिवर्द्धनकुमारः / तथाहि / खौकतमनेन समस्तमपि लिपिज्ञानं स्वयं पृष्ठमिव गणितं उत्पादितमिवात्मना व्याकरणं त्रीभूतमस्य ज्योतिष मात्मौभूतमष्टाङ्गमहानिमित्तं व्याख्यातमन्येभ्यश्छन्दोऽनेन अभ्यस्तं नत्तं शिक्षितं गेयं प्रणयिनीवास्य हस्तशिक्षा वयस्येव धनुर्वेदः मित्रमिव वैद्यकं निर्देशकारोव धातुवादः अनुचराणीव नरलक्षणादीनि श्राधेयविक्रयानि पत्रच्छेद्यादौनि। किंबहुना नास्ति मा काचित्कला या कुमारमासाद्य न प्राप्ता परां काष्ठामिति / ततः प्रादुर्भवदानन्दोदकपरिपूरितनयनयुगलेनाभिहितं तातेन आर्य एवमेतत् किमत्राश्चर्यम् किं वार्य कृतोद्योगे न संपद्यते कुमारस्य धन्यः कुमारो यस्य युमादृशा गुरवः बुद्धिसमुद्रेणोक्त देव मामैवमादिश केऽत्र वयं यमदनुभावोऽयं तातेनाभिहितं आर्य किमनेनोपचारवचमा युमत्प्रसादेनैवास्मदानन्दसन्दर्भदायिकां संप्राप्तः कुमारः सकलगुणभाजनताम् / बुद्धिसमुद्रेणोक्तं यद्येवं ततो देवकर्तव्येषु नियुक्तरनुचरैर्न वञ्चनीयाः खामिन इति पर्यालोचनया किंचिद्देवं विज्ञापयितुमिच्छामि तच्च युक्तमयुक्तं वा चन्तुमर्हति देवो यतो यथार्थं मनोहरं च दुर्लभं वचनम् / तातेनाभिहितं वदत्वार्यः यथावस्थितवचने कोऽवमरोऽक्षमाया: बुद्धिसमुद्रेणोक्त यद्येवं ततो यदादिष्टं देवेन यथा सकलगुणभाजनता संप्राप्तः कुमार इति तथैव स्वाभाविकं कुमारस्य स्वरूपं प्रतीत्य नास्यत्र For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy