________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः। 185 कालमिति / अन्यदा कर्मपरिणममहाराजादेशो नैवानुमतो महत्तमबलाधिकृताभ्यां निःसारितस्ततोऽपवरकन्यायाद् भवितव्यतया धारितस्तचैव पाटके पुनरसंख्यकालं प्रत्येकचारितयेति / दूतश्च पूर्वमेव कर्मपरिणाममहाराजेन परिपृच्छय लोकस्थितिं ममालोच्य सह कालपरिणत्या ज्ञापयित्वा नियतियदृच्छादौनामनुमते भवितव्यतायाः / अपेक्ष्य विचित्राकारं लोकखभावमात्मीयसामर्थप्रभवैः परमाणुभिर्निष्पादिताः सर्वार्थकारिण्य एकभववेद्यसंज्ञाः प्रधानगुडिकाः / समर्पिता भवितव्यतायाः। मा चाभिहिता तेन / यथा भने समस्तलोकव्यापारकरणोद्यता वं श्रान्तासि समस्तचोकानां क्षणे क्षणे नानाविधसुखदुःखादिकार्याणि संपादयन्तौ ततो ग्रहाणामूर्गडिकाः। ततस्त्रया तामामेकैकस्य सत्वस्य जीर्णयां जीर्णायामेकैकस्यां गुडिकायामन्या दातव्या। ततः संपादयत्येताः स्वयमेव विविधमप्येकत्र जन्मवासके वमत्सु प्रत्येकं सत्त्वेष तवेष्टं सर्वं प्रयोजनमिति भविष्यति ते निराकुलता / ततः प्रतिपन्नं भवितव्यतया तद्राजशासनम्। विधत्ते च सकलकालं समस्तमत्त्वानां तथैव मा तं गुडिकाप्रयोगम् / ततोऽहं यदा तत्रासंव्यवहारनगरेऽभूवं तदा मम जोर्णायां जोर्णायामपरां मा गुडिकां दत्तवती। केवलं मूत्ममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती / तत्र पुनरेकाचनिवामनगरे समागता तौबमोहोदयात्यन्ताबोधयोः कुतूहलमिव दर्शयन्तौ। तेन गुडिकाप्रयोगेण ममानेकाकारं स्वरूपं प्रकटयति स्म। यतः कृतोऽहं तत्र पाटके वर्तमानः कचिदवमरे सूक्ष्मरूपः / 21 For Private And Personal Use Only