SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 उपमितिभवप्रपञ्चा कथा / लोकना बहुमतोऽहं धर्ममूरिपादानां नूनमनवरतमनुवर्तते ममोपरि मदनुग्रहप्रवणा तद्दया ममुन्मौलिता मे मनमि लेशतः सद्बुद्धिः श्लाघितोऽहं समस्तलोकैस्तद्वारेण ततः सपुण्यतया किल लोकोत्तमो वर्तेऽहमिति / अतो मिथ्याभिमानं वितनुते भवति चात्यन्तनिर्गुणस्थापि जन्तोमहद्भिः कृतगौरवस्य चेतमि गर्वातिरेकोऽत्र चेदमेवोदाहरणम्। अन्यथा कथमयं जौवः समस्तजघन्यतामात्मनो विस्मृत्येत्थं प्रगल्भते ततोऽयं भावयति यदि मां विनयपुरस्सरं कश्चिदर्थितया ज्ञानादिखरूपं प्रश्नयिष्यति ततोऽह तत्तस्मै प्रतिपादयिष्यामि नापरथा। ततस्तादृशाकूतविडम्बितोऽयं भृयांममपि कानमवतिष्ठमानोऽत्र मौनौन्द्रप्रवचनेन कथंचित्ताथाविधं प्रयच्छकमासादयति यतोऽत्र भावतो वर्तन्ते ये जीवास्ते स्वत एव ज्ञानदर्शनचारित्रत्रयं सुन्दरतरमा बिभ्रते नैवंविधसम्बन्धिनमुपदेशमुपेक्षन्ते यद्यप्यधुनैव लब्धकर्मविवराः मन्मार्गाभिमुखचित्तवृत्तयोऽद्यापि विशिष्टज्ञानादिरहिता विद्यन्तेऽत्र केचिज्जीवास्तेऽप्यमुख्य प्रस्तुतजीवस्य सम्मुखमपि निरौचन्ते यतोऽत्र भगवन्मते विद्यन्ते भूरितमा महामतयः मद्दोधादिविधानपटवोऽन्य एव महात्मानो येभ्यस्ते प्राणिनस्तज्ज्ञानदर्शनचारित्रत्रयमपरिक्लेशेन यथेच्छया प्राप्नुवन्ति ततोऽयं जीवोऽनामादिततदर्थो व्यर्थकमात्मगुणोत्सेकमनुवर्तमानश्चिरमप्यामौत् न कथञ्चन स्वार्थं पुष्णीयादिति / ततस्तदनन्तरं यथा तेन मपुण्यकेन मा सद्बुद्धिस्तद्दानोपायं परिपृष्टा तया चोक्तं भद्र निर्गत्य घोषणापूर्वकं भवता दीयतामिति / ततोऽसौ तत्र राजकुले घोषयन्नुच्चैःशब्देन / यदुत मदीयं भेषजत्रयं भो For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy