SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। दोषविरतिं कुर्वतः परिणतिविशेषेण सर्वदोषत्यागेऽपि सक्रिः संपत्स्यत इति / ततः प्रतिपद्यन्ते तद्वचनं गुरवः / चोदयन्ति प्रमाद्यन्तं क्वचिदवसरे संपद्यते प्राक् प्रवृत्तिपौडोपशमः तद्वचनकरणेन प्रवर्द्धन्ते ज्ञानादयो गुणास्तत्प्रसादेन मोऽयं तद्दयावचनकरणेन मनागारोग्यलक्षण: संजातो विशेष इत्युच्यते / केवलमयं जीवो विशिष्टपरिज्ञानविकलतया यदैव ते चोदयन्ति तदैव स्वहितमनुचेष्टते तचोदनाभावे पुनः शिथिलयति सत्कर्तव्यं प्रवर्तते निर्भर भूयो सदारंभपरिग्रहकरणे। ततश्चोलपन्ति रागादयो जनयन्ति मनःशरीरविविधबाधाः। ततस्तदवस्यैव विहलतेति तेषां तु भगवतां गुरूणाम् / यथायं प्रस्तुतजीवः मच्चोदनादानदारेण परिपाल्यस्तथा बहवोऽन्येऽपि तथाविधा विद्यन्ते। मतच समस्तानुग्रहप्रवणास्ते कदाचिदेव विवचितजीवचोदनामाचरन्ति शेषकालं तु मुकलतया वाहितमनुतिष्ठन्तमेतं न कश्चिद्वारयति। ततशायमनन्तरोनोऽनर्थः संपद्यत इति। मोऽयं तद्दयामबिधानविरक्षादपथ्यसेवनेन पुना रोगविकाराविर्भाव इत्यभिधीयते। ततो यथा पुनस्तेन द्रमकेण तस्मै सूदाय स्ववृसान्तं निवेद्येदमभिहितं यदुत नाथास्तथा यतध्वं यथा न मे स्वप्नान्तेऽपि पौडा जायते ततस्तेनोकम् / इयं तद्दया व्यग्रतया न सम्यक् तवापथ्यनिवारणं विधत्ते ततः करोम्यनां निळयां तव परिचारिकां केवलं तद्वचनकारिणा भवता भाव्यं ततः प्रतिपन्नं तत्तेन दत्ता तस्मै निःसाधारणा मबुद्धिर्नामपरिचारिका सूदेन / ततस्तगुणेन निवृत्तं तस्यापथ्यलाम्पयं ततस्तनूभूता रोगा निवृत्तप्रायास्तधिकाराः संपन्ना मनाम् शरीरे 17 For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy