SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सन्तापं खौकुस्ते ततश्चैनं समस्तदोषभाजनतया लोकैः पापिष्ठोऽदृष्टोऽयमिति निन्द्यते। अन्यच // दयोः पुरुषयोरनुपहतमत्वबुद्धिपौरुषपराक्रमयोनिःशेषविशेषेस्तुल्यकश्योरर्थोपार्जनार्थं प्रवर्त्तमानयोः किमित्येको यद्यदारभते कृर्षि पाशुपाल्यं वाणिज्यं राजोपसेवामन्यदा तदर्थं कर्म तत्तत्मफलतामुपगच्छति। इतरस्य पुनस्तदेव कर्म न केवलं विफलं संपद्यते किन्तहि पूर्वपुरुषोपार्जितमपि धनलवं वैपरीत्यापत्या प्रत्युत निःशेषयति। अन्यच्चेदमपि चिन्तनौयं यदुत इयोरेव पुरुषयोनिरूपचरिताः पञ्चप्रकाराः शब्दादिविषयाः क्वचिदुपनमन्ते तत्र तयोरेकः प्रबलशक्तिः प्रवर्द्धमानप्रीतिस्ताननवरतमनुभवति / द्वितीयस्य पुनरकाण्ड एव किमिति कार्पण्यरोगादिकं कारणमुत्पद्यते येन वाञ्छन्नपि तानेव भोक्तुं न शक्नोतीति / न ह्येवंविधानां विशेषाणां जौवेषु जायमानानां परिदृष्टं किञ्चित्कारणमुपलक्ष्यते न चाकारणं किञ्चिद्भवितुमर्हति यदि पुनरकारणा एवंविधा विशेषा भवेयुः ततः सर्वदा भवेयुः यथाकाशं न वा कदाचिद्भवेयुर्यथाशशविषाणादयो यतश्चैते क्वचिद्भवन्ति कचिन्न भवन्ति तस्मान्नेते निष्कारणा इति गम्यते / अत्रान्तरे ग्रहौतार्थः स जीवो ब्रूयात् भगवन् किं पुनरेतेषामुत्पादकं कारणं ततो धर्मगुरवो वदेयुः भद्राकर्णय समस्तानामपि जीवगतानां सुन्दरविशेषाणां धर्म एवान्तरङ्गं कारणं भवति। स एव हि भगवानेनं जौवं सुकुलेषत्पादयति निःशेषगुणमन्दिरतां नयति समस्तानुष्ठानान्यस्य सफलयति उपनतभोगा For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy