SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। मवबोद्धव्यम् / ततो धर्मगुरवश्चिन्तयन्ति कः पुनर्बोधोपायोऽस्य भविष्यतीति / ततः पर्यालोचयन्तः निजहृदये विनिश्चित्यैवं बिदधते। क्वचिदवसरे तं माधपाश्रयमागामुकमवगम्य जनान्तरोद्देशेनाग्रिमतरां प्रारम्भते मार्गदेशनां यदुत भो भो लोका विमुच्य विक्षेपान्तरमाकर्णयत यूयम् / इह चत्वारः पुरुषार्था भवन्ति तद्यथा अर्थः कामो धर्मो मोक्षश्चेति। तत्रार्थ एव प्रधानः पुरुषार्थ इति केचिन्मन्यन्ते। अत्रान्तरे स श्रागच्छेत्ततस्तस्याकर्णयतो वदन्ति गुरवः / तथा हि। अर्थनिचयकलितः पुरुषो लोके जराजौर्णशरीरोऽपि उन्मत्तपञ्चविंशतिकतरुणनराकारः प्रतीयते / अतिकातरहृदयोऽपि महासमरसङ्घदृनियूं ढसाहमोऽतुलबलपराक्रम इति गौयते। सिद्धमानकापाठमात्रशक्तिविकलबुद्धिरपि समस्त शास्त्रार्थावगाहनचतुरमतिरिति बन्दिभिः पयते / कुरूपतया नितरामदर्शनीयोऽपि चाटुकरणपरायणैः सेवकनरैरवजितमकरकेतुरिति हेतुभिः स्थाप्यते। अविद्यमानप्रभावगन्धोऽपि समस्तवस्तुमाधनप्रवण - प्रभावोऽयमिति सर्वत्र तद्धनलुब्धबुद्धिभिः प्रकाश्यते। जघन्यघटदासिकातनयोऽपि प्रख्यातोनतमहावंशप्रसूतोऽयमिति प्रणयिजनैः स्तूयते। पासप्तमकुलबन्धुतासम्बन्धविकलोऽपि परमबन्धुबुड्याध्यारोपणसमस्तलोकैर्टह्यते तदिदं समस्तमर्थस्य भगवतो विलमितम् / किञ्च / समाने पुरुषत्वे समरंख्यावयवाः पुरुषा यदेते दृश्यन्ते लोके यदुत एके दायकाः अन्ये तु याचकाः तथैके नरपतयोऽन्ये पदातयः तथैके निरतिशयशब्दायुपभोगभाजनमन्ये तु दुष्परोदरदरौपूरणकरणेऽप्यशक्ताः तथैके पोषका अन्ये पोय्या इत्यादयो For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy