SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । [टिप्पनक-व्याख्या-विवृतिविभूषिता वार्योऽनार्यः स निर्दोषे, यः कान्याध्वनि सर्पताम् । अग्रगामितया कुर्वन् , विघ्नमायावि सर्पताम् ॥९॥ [ पथ्यावृत्तम् ] ॥ ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ अथ कविवर्णनं दुर्जननिन्दा चाह-वन्द्या इति सुगमम् । सोऽनार्यो दुर्जनो वार्यों निवारणीयो य आयाति प्राप्नोति, कां ? सर्पतामहिताम् , किं ? कुर्वन् विदधानः, कि ? विघ्नमन्तरायं दोषोत्पादनलक्षणम् , कयाऽप्रगामितया पुरोगन्तृत्वेन, केषां ? सर्पता प्रवर्त्तमानानाम् , क्व ? काव्याध्यनि-काध्यमार्गे, किंभूते ? निदोषे छन्दोऽलङ्कारादिदोषरहिते, सर्पोऽपि यदा मार्गे चोरादिदोषशून्ये गच्छतामग्रगामित्वेन विघ्नं करोति तदा वार्योऽनार्यः क्रुद्धः ॥९॥ 卐 श्रीमत्पन्नसागरविबुधरचिता व्याख्या ' अथ स्वाधिकपुरुषवन्दनाद्याचारपरेण हीनसंगपरिहारः कार्य इत्येतद्दर्शयति, वार्योऽनार्यः स इति, व्याख्या० सोऽनार्थो नीचो दूरदूरतरपरित्यागेन वार्यो निषेध्यस्तस्यासदोषाविश्कारकत्वेन वचनान्यपि नाऽऽकर्णनीयानीत्यर्थः । अथैतस्य परिहारनिदानत्वरूपमाह-यो निर्दोषे दोषरहिते काव्याध्वनि काव्यमार्गे रचनारूपे सर्पतां बजा तत्कुर्वतामित्यर्थः, यत्तत्प्रलापितया विघ्नमन्तरायं कुर्वनगामितया नीचपुरस्सरतया सर्पतामायाति प्राप्नोति, यथाहि निर्दोषे मार्गे गच्छता पुंसामन्तरायातः सर्पः स्खलनारूपं विघ्नं करोति तथाऽयमपि तत्स्वभावतया सत्काव्यकरणादरवतां सतामसदोषाविष्कारकरत्वेनोत्साहभङ्गरूपं विघ्नं करोतीति वार्य एव हेय एवाऽनार्य इति वृत्तार्थः ॥९॥ ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ सम्प्रति सत्कवीन् स्तौति 'वन्द्यास्ते 'इत्यादिना । ते कवयो वन्द्या इत्यन्वयः । वन्द्याः वन्दितुं योग्याः। किंविशिष्टाः कवयः ? काव्यपरमार्थविशारदा काव्यानां 'काव्यं रसात्मकं वाक्यम्' इत्याधुक्तलक्षणानां यः परमार्थो यथास्थितसमीचीनार्थस्तस्मिन् विशारदास्तद्विचारणे निपुणा इत्यर्थः, यद्वा काव्यमेव परमार्थः परोपकारस्तस्मिन् विशारदाः कुशला इति । ते के ? ये विचारयन्ति, कान् विचारयन्ति ? गुणान्-रसोत्कर्षहेतून् माधुर्योजःप्रसादाख्यकाव्यगुणान् , दोषांश्च-च पुनः, दोषान्-वक्ष्यमाणकाव्यदोषान्, न केवलं गुणान् किन्तु दोषानपीत्यर्थः । कीदृशाः सन्तो विचारयन्ति ? गतमत्सरा-गतो नष्टो मत्सरोऽन्यशुभद्वेषो येषां ते तथा । इमे दोषाः-रसादेः स्वशब्दोक्तिः क्वचित्संचारिवर्ज दोषः । रसदोषा विभावानुभावक्लेशव्यक्तिः पुनःपुनर्दीप्त्यकाण्डप्रथाच्छेदाङ्गातिविस्तारानयनुसंधानानङ्गामिधानप्रकृतिव्यत्ययाश्च, निरर्थकासाधुत्वे पदस्य, वावयदोषा विसन्धिन्यूनाधिकोक्तास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गहतवृत्तसंकीर्णगर्भितभग्नप्रक्रमानन्वितत्वानि, पदवाक्यदोषा अप्रयुक्ताश्लीलासमर्थानुचितार्थश्रुतिकटुक्लिष्टाविमृष्टविधेयांशविरुद्धबुद्धिकत्वानि । अर्थदोषाः कष्टापुष्टव्याहतग्राम्याश्लीलसाकाङ्क्षसंदिग्धाक्रमपुनरुक्तभिन्नसहचरविरुद्धव्यायप्रसिद्धिविद्याविरुद्धत्यक्तपुनरात्तपरिवृत्तनियमानियमविशेषसामान्यविध्यनुवादत्वानि । इदं पथ्यावृत्तम् , तल्लक्षणं तु “ ताजोर्जः” [तद् 'अनुष्टुमिनाद्यात्स्नौ तुर्याद्यो वक्त्रम्' इत्युक्तं वक्त्रं युजोः पादयोस्तुर्यादक्षगत् परो जगणश्चेद् भवति तदा पथ्या ] इतिच्छन्दोऽनुशासने ॥८॥ अथ दुर्जनपरिहारं दर्शयति 'वार्योऽनार्य 'इत्यादिना । —सोऽनार्यो वार्यः' इत्यन्वयः, सः, अनार्यः दुर्जनः, वार्य-निवारणीयः, दूरतः परिहरणीयः । स कः ? यः सर्पतां सपत्वमहित्वम् , आयाति प्राप्नोति, सर्पसमानो भवतीत्यर्थः । किं कुर्वन् ? विघ्नम्-उपद्रवमलीकदोषोद्भावनलक्षणम्, कुर्वन्-विदधानः, कया रीत्या ? अग्रगामितया-पुरोगन्तृत्वेन, केषाम् ? निर्दोषे काव्यावनि सर्पताम् , निर्दोषे-छन्दोऽलंकारादिसत्कदोषरहिते, काव्याध्वनि-कान्यमेवाध्वा नानातत्त्वपिपासुजनपथिकैः समाश्रितत्वात् पन्थास्तत्र, सर्पताम् सर्पन्ति गच्छन्तीति For Private And Personal Use Only
SR No.020833
Book TitleTilak Manjri
Original Sutra AuthorN/A
AuthorDhanpal, Padmasagar, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy