________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-व्याख्या-विवृतिविभूषिता प्रबन्धानामनध्यायः, सा वाग जयति शुद्धया ।
यया प्रतिपदेवेन्दुः, कविः क्षीणोऽपि जीवति ॥७॥ [ पथ्यात्तम् ॥
卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ वाच उत्कृष्टता]माह- सा वाग्वाणी जयत्युत्कृष्टा वर्तते । यया वाचा कविः, कीदृशः ? क्षीणोऽपि जीनोऽपि, जीवति उच्छुसिति प्राप्तसिद्धिोके भवति, यद्वा जीवति जीव इव बृहस्पतिरिवाचरति अयिलोपे (?) रूपं बृहस्पतीयत्यर्थः । कयेव कः ? प्रतिपदेव शुक्लपक्षप्रथमतिथ्येवेन्दुः, यथा चन्द्रः प्रतिपदा क्षीणोऽपि क्षयप्राप्तोऽपि जीवति । किंभूतया वाचा प्रतिपदा य? शुद्धया निर्दोषया शुभ्रया च, कीदृशी वाक् प्रतिपञ्च ? अनध्यायोऽनध्ययनहेतुत्वादपठनं तथाविधार्थालङ्काराद्यभावेनोद्वेगहेतुत्वात् , केषां ? प्रबन्धानां शास्त्राणाम् , प्रतिपदप्यनध्यायः शास्त्राणामध्ययनस्य निषेधाच्छास्त्रे ॥ ७ ॥
॥ श्रीपनसागरविबुधरचिता व्याख्या ॥ अथैवमविघ्नेनाऽऽरब्धग्रन्थपरिसमाप्त्यर्थं वृषभादिवर्धमानपर्यन्तजिनस्तधनलक्षणातिशयितमङ्गलमाधाय तावत्सकलशास्त्रोपजीवकत्वेनाऽऽराध्यतमां वाचं स्तुवन्नाह-प्रबन्धानामिति । व्याख्या० सा वाग् जयतीत्यन्वयः । तस्याः प्रतिपत्तिथिसाम्येन स्वरूपमाह-कथंभूता वाक् , अमध्यायोऽध्यायो नामाऽधिकारो, न अध्यायोऽनध्यायोऽनधिकार झ्यथः, केषां प्रबन्धानां, प्रकर्षण बन्धानां विशिष्टबन्धानामनधिकारः । अयं भावः, नवशिक्षितकविकृतत्वेन यद्यपि विशिष्टबन्धाधिकारा काचिद्वाग् न भवत्यपि, तथापि सा वागने वक्ष्यमाणगुणकारित्वेन श्लाध्यैवेति, साऽपि वाग् जयतीत्यपेरध्याहारपर एवाऽयं कवेरध्यवसायः, प्रतिपत्साम्य तु,प्र प्रकृष्टो बन्धो रचना येषां तानि प्रकृष्टबन्धानि शास्त्राणि तेषामनध्यायः पाठाभावा प्रतिपत्तिधिर्भवतीति सिद्धमेव । ननु प्रबन्धानामनध्यायत्वेन प्रतिपत्तिथिसमयाऽनया वाचा कि भवतीत्याशङ्कय यद्भवति तद्दर्शयति, प्रतिपदेव यया वाचेन्दुरिव क्षीणोऽपि कविर्जीवत्यभ्युदयवान् भवतीति, अयं भावः, यथा प्रतिपद्दिनमाहात्म्येनाऽस्तं गतोऽपि चन्द्रो भाव्युदयेन स जीव इवोच्छ्वसितो भवति तथा कविरपीत्यर्थः । अथ द्वितीयार्थों यथा वाचा कविः शुक्रोऽपि जीवति जीव इव बृहस्पतिरिवाऽऽचरत्युभयोरपि वक्तृत्वफलाविशेषात् । यद्वा कविः काव्यकारी जीवति जीव इवाऽऽचरतीति वृत्तार्थः ॥ ७ ॥
卐 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ मध्ये भूमिमध्ये मग्नं चक्राभिघातेन प्रविष्टं वपुः शरीरं यस्य तस्य तथा, कथम्भूता दृष्टय इत्याह-करुणाभराञ्चितपुटाः करुणाया 'अरेरे ! परमपापकारिणोऽस्य देवस्य किं भाव' इति दयाया भरेण समुदायेनाञ्चिताः पूजिता उत्तमतामापादिताः पुटाः कनीनिकाच्छादिकाः पुटाकारा त्वचो यासां तास्तथा । कदा ईदृश्यो दृष्टयो जाता इत्याह-चक्राभिघातव्यथामून्तेि -चक्रेण कालचक्राभिधानेन देवक्षिप्तेन शस्त्रविशेषेण योऽभिघातः प्रहारस्तेन जाता या पीडा तया जनिता या मूर्छा तदन्ते, निरुक्तमूपिगमानन्तरमिति भावः, अत्र चक्राभिघातव्यथा इति विश्लिष्य दृष्टिष्वपि योज्यम् । पुनः कथम्भूता दृष्टय इत्याकाक्षायां 'सुरे निश्वस्य संचारिता, इत्यन्वयः । सुरे-चक्रक्षेपकदेवे, निश्वस्य-निश्वासं मुक्त्वा, संचारिताः गमिताः। कथम्भूते देवे ? स्खलितोपसर्गगलितप्रौढप्रतिज्ञाविधौ-स्खलितैः विफलीभूतैरुपसर्गरुपद्रवैर्गलितो नष्टः प्रौढप्रतिज्ञायाः ‘वीरमहं चालयिष्यामि' इति महत्तरप्रतिज्ञाया विधिः कार्य यस्य तस्मिंस्तथा। पुनः कीदृशे देवे ? स्वाश्रयम्-देवलोकलक्षणं स्वस्थानं प्रति, याति-गमनं कुर्वाणे, पुनः कीदृशे देवे ? अर्जिताहसि-अर्जितानि संचितानि अंहांसि पापानि येन तस्मिंस्तथा । अत्रायं सम्प्रदायः
पुरा किलेकदा देवसभायां निषण्णेन शचिपतिना श्रमणस्य भगवतो महावीरस्य घोरातिघोरतपोगुणसमुल्लसिताऽचला ध्यानधारा विलोकिता, तदनु देवानामग्रे 'श्रमणो भगवान् महावीरो देवगणैरपि ध्यानान्न चालयितुं शक्यः' इति
For Private And Personal Use Only