________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किमस्माकं प्रेमशैथिल्यं दृष्टं ?, किं च कुरंगवारि वदऽसारं प्रतिभातं ? अस्तु ! अयि ! अमृतमयि ! कथं रोचेत भवद्भ्यो विषमयमर्त्यसुखबातः ? तर्हि सानंदं विलसंतुतराम् । शुभवंत: भवंतः विश्वेश्वर चरणारविंदे. तत्रैव विश्राम्य कल्याणभाजः बोभवंतु, अंग ! विकसित प्रौढ पुष्प सदृश वेदमूर्ते ! संहिताधष्ट वेदविकृतिविज्ञान सुकृतिन् ! प्रार्थयिष्येऽहमत्रत: युष्माकं श्रेयःश्रिये परमशंकर विश्वनाथस्य सविधे, श्रीमतामात्मानं सर्वदा-सर्वत्र च शांतिर्भवतु.
उपसंहार.
दानामृतं यस्य करारविंदे, ज्ञानामृनं यस्य मुखारविदे; कृपामृतं यस्य मनोऽरविंदे, स: वल्लभः कस्य नरस्य न स्यात् . १
संवत् १९८१ कार्तिक शुक्ला प्रतिपदा.
मुनि देवचंद्रः
For Private And Personal Use Only