SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतदपि दुःख-समुदय-मार्ग-निरोधलक्षणं वैराग्यवर्धक बौद्धमतं न कथमपि ज्ञातपुत्रशासनेन विरोधभावं विभर्ति-इति सुविचारमेव. किञ्च-यैरत्र बौद्धशासने अनात्मवादः समारोपितः ते तु बौद्धसंमतं आत्मशब्दवाच्यमेव न जानन्ति. यथा जैनशासने ' द्रव्यात्मा' 'कषायात्मा' इत्येतौ शब्दौ यम्-यादृशम् आत्मानं सूचयतः, तथैव तेषां बौद्धानां क्षणनश्वरपक्षगत श्रास्मशब्दस्तमेव भावं सूचयति. ये बौद्धाः निर्वाणवादिनः, ते न कथमपि अनात्मवादिनो भवेयुरिति, यच्च भगवतो बुद्धस्य राज्यादित्यागादिकम् , तदपि श्रात्मवादमेव समर्थयति-इत्येतद् बालसुगमम् , एतच्च अस्माकं कथनं मज्झिमनिकाय १-" छयिमानि भिक्खवे दिहिवानानि, कतमानि छ ? इध भिक्खवे अस्सुतवा पुथुजनो....सप्पुरिसधम्मे अविनीतो रूपं एतं मम, एसोऽहमस्मि, एसो मे अत्ता ति समनुपस्सति, वेदनं एतं मम, एसोऽहमस्मि, एसो मे अत्ता ति समनुपस्सति, संखारे एतं मम एसोऽहमस्मि एतो मे अत्ता ति समनुपस्सति. यं पिदं दिलु, सुतं, मुतं, विज्ञातं, पत्तं, परियेसितं, अनुविचरितं मनसा. तं पि एतं मम. एसोऽहमस्मि, एसो मे अत्ता ति समनुपस्सति" इत्यादिना मज्झिमनिकाय ( सूत्र २२,८, पृ. ६६-६७ रा०) ग्रन्थगतपाठेन अत्रत्य-आत्मशब्दवाच्यस्य जैनपरिभाषाप्रसिद्धं द्रव्यात्मत्वम्-कषायात्मत्वादिकम्-सुप्रतीतमेव । तथा "कतमा चावुसो पठवीधातु ? पठवीधातु सिया अज्मत्तिका सिया, वाहिरा सिया x x x या चेव खो पन अज्झत्तिका पढवीधातु या च बाहिरा पठवीधातु-पठवीधातुरेव ता तं नेतं मम, For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy