SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वत्' इति । भगवता भर्तृहरिणापि स्वीये वाक्यपदीये शब्दस्य अणुजन्यत्वं स्वीकृतम् । नातो शब्दो गगनगुणः इति । अत्र विषये सविस्तरः पूर्वपक्षः भट्टकुमारिलकृतात् श्लोकवार्तिकात् , उत्तरपक्षश्व संमतिप्रकरणाद् अवधेयः । पत्र प्रसङ्गात् सामान्य निरूपयति-सामान्यं द्विविधम् , तिर्यक्सामान्यम् , उर्ध्वतासामान्यं च । आद्यस्य लक्षणमाह प्रतिव्यक्तितुल्या परिणतिस्तिर्यकसामान्यम् । यथा शवलशाबलेयपिण्डेषु गोत्वमिति। द्वितीयभेदस्य लक्षणमाह-पूर्वा परपरिणामसाधारणद्रव्यमूर्ध्वता सामान्यम् । यथा कटककऋणानुगामि काश्चनमिति । अथ विशेषं निरूपयति-विशेषो द्विविधः, गुणः पर्यायश्चेति । तत्र गुणात्यविशेष लक्षयतिसहभावी धर्मो गुणः। यथाऽऽत्मनि विज्ञानशक्त्यादिरिति । द्वितीयं पर्यायाख्यं विशेष निरूपयति-पर्यायस्तु क्रमभावी, यथा तत्रैव सुख-दुःखादिरिति । अत्र सदसदंशात्मकस्य वस्तुनः सदंशात्मकभावरूपं निरूप्य असदंशात्मकभावस्वरूपं निरूपयतिप्रभावश्चतुर्धा-प्रागभावः, प्रध्वंसाभावः, इतरे तराभावः, अत्यन्ताभावश्च ॥ ४० ॥ क्रमशश्चतुरोऽपि अभावाविरूपयितुमाह-यमिवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः । यथा मृतपिण्डनिवतावेव समुत्पद्यमानघटस्य मृतपिण्डः । यदुत्पत्तौ कार्यस्याऽवश्यं विच्छेदः सोऽस्य प्रध्वंसाभावः, यथा कपालकदम्बकोत्पत्ती नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् । For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy