SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ विरुद्धं लक्षयति-साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्ध इति । यथा तुरंगोऽयं शृङ्गसंगित्वादिति । तृतीयमनकान्तिक प्रदर्शयति-यस्यान्यथानुपपत्तिः संदिह्यते स अनैकान्तिक इति-यथा पर्वतोऽग्निमान् प्रमेयत्वादिति इति हेत्वाभासाः॥ अथ क्रमप्राप्तं पश्चमभेदरूपमागमं निरूपयति-प्राप्तवचनादाविर्भूतमर्थसंवेदनमागम इति. यथा समस्त्यत्र प्रदेशे रत्ननिधानमिति । प्रसङ्गतोज बहुवक्तव्यमास्ति परं ग्रन्थगौरवभयान वितन्यते इति। एवं ज्ञानं निरूप्याऽज्ञानं निरूपयतिसदसतोरविशेषाद्यदृच्छोपलव्यात्मकमज्ञानम् ॥३०॥ सत् विद्यमानम् , असत् अविद्यमानम्-तयोरविशेषेणविशेषाभावेन यदृच्छया खैरवृत्त्या उपलब्धिः-साक्षात्कारः, तदात्मकमित्यर्थः । यावच्च देहाध्यासस्तावत् सर्वस्यापि प्राणिनो व्यवहारतो ज्ञानमपि एतत्सूत्रोक्तम् अज्ञानम् । तत् पुनस्त्रिविधम्-मति-श्रुत-विभङ्गभेदात् ।। उपयोगावान्तरभेदरूपं तायिक दर्शनं निरूपयतिसामान्यप्रधानमुपसर्जनीकृतविशेषार्थग्राहकं दर्शनम्॥३१॥ अत्र निखिलं पदकृत्यं केवल विशेष्य-विशेषणभावव्यत्यासेन ज्ञानलक्षणोक्तदिशाऽवसेयमिति । For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy