SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदनन्तभागे मनःपर्यायस्य ॥ २२ ॥ यदेतद् रूपिद्रव्यं सर्वमवधिज्ञानविषयत्वेन समर्थितंतस्यानन्तभागीकृतस्यैकस्मिन् भागे मनःपर्यायः प्रवर्तते. । अथ चरमतयोपन्यस्तस्य केवलज्ञानस्य विषयनिधनायाह सर्वद्रव्यपर्यायेषु केवलस्य ।। २३ ॥ सर्वद्रव्येषु, सर्वपर्यायेषु च केवलस्य विषयानिबंधो भवति । तद्धि सर्वभावग्राहक संभिमलोकालोकविषयम्-नातः परं ज्ञानमस्ति, न चास्ति तद् ज्ञेयं यथावभासते केवलेनइति । केवलं परिपूर्ण शुद्धयनिरपेक्षम्-इत्याद्यपरिमितमाहात्म्यं तस्य । अत्र विषयनिवन्धोऽवधृतो मत्यादीनाम् इदं तु न नितिं यद् एकस्मिनात्मनि स्वनिमित्तसन्निधानोपजनितवृत्तीनि कति ज्ञानानि भवन्ति ? इत्यत उच्यतेएकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्व्यः ॥ २४ ॥ एकः आदिर्येषां तानि तथा, भाज्यानि विभक्तव्यानि, योगपद्येनैकस्मिन्नात्मनि कुतः ? आ चतुर्यः-तद्यथा-एकं केवलज्ञानं, द्वे मतिश्रुते, त्रीणि मति-श्रुताऽवधिज्ञानानि,मतिश्रुत-मनःपर्यायज्ञानानि वा; चत्वरि मति-श्रुताऽवधि-मन:पर्यायज्ञानानि, न पश्च संति-केवलस्यासहायत्वात् । एवं मत्यादिज्ञानपञ्चकं निरूप्य स्वपरव्यवसायित्वाज्ज्ञानस्यैव प्रमाणत्वं प्रख्यापयन् तत्संख्याप्रदर्शनपुरःसरं प्रतिपादयबाह तत् प्रमाणे ॥ २५ ॥ For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy