SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तद् एतद् मतिज्ञानमुभयनिमित्तमप्येकशश्चतुर्विधम् , तदाहपुनस्तद् अवग्रहेहाऽवायधारणाभेदाचतुर्विधम् ॥७॥ यथा स्वमिन्द्रियैर्विषयाणामालोचनमवग्रहः, अवगृहीतस्य निश्चयविशेषजिज्ञासा ईहा, ईहितस्य निश्चयकरणमपायः, अवाप इति वा, निश्चयितस्य मत्यवस्थानमवधारणा, अवग्रहादीनां विशेष स्वरूपं नन्दी-विशेषावश्यकादिभ्यो ग्रन्थान्तरेभ्योऽवसेयम् , विस्तरभयानात्र मीमांस्यते । चतुर्णाम् मध्ये कत्यर्थस्य ग्राहकाः ? इत्याशङ्कायामाह-- चत्वारोऽप्येतेऽर्थस्य ।। ८॥ अवग्रहादयो मतिज्ञानविकन्या अर्थस्य भवन्तीत्यर्थः । ननु किमवग्रहादयः सर्वस्येन्द्रियानिन्द्रियस्य भवन्ति ? उत कश्चिद् विषयविशेषोऽस्ति ? इत्यत आह व्यञ्जनस्यावग्रह एव ॥ ६ ॥ व्यञ्जनमव्यक्तं शब्दादिजातम्-तस्य अवग्रहो भवति । यद्यपि सूत्रस्य एवकारं विनैव नियमार्थकता प्रतिपादिता स्यादेव, तथापि स्पष्टता प्रयोजनकमेवेह तस्योपादानं ज्ञातव्यम् । सर्वेन्द्रियाणामविशेषेण व्यञ्जनावग्रहप्रसङ्गे यत्राऽसंभवः, तदर्थ प्रतिषेधयाह चतुरनिन्द्रियभिन्नैस्तद्ग्रहः ॥ १० ॥ चक्षुर्मनोभ्यां व्यञ्जनावग्रहो न भवति, तयोरप्राप्यकारिस्वात् शेषैश्चतुर्भिरिन्द्रियैर्भवतीति भावः । दर्शितज्ञानपञ्चके द्वितीयं श्रुतज्ञानं दर्शयबाह For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy