SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोऽपि तयोः सम्बन्धः । तथाहि-कर्मणां क्षयोत्पत्तिशालित्वेन तैजसपुद्गलानां तु परावृत्तिधर्मत्वेन यत् स्यात् मनुजगतिसहचारि कार्मणं शरीरम्, तैजसं वा शरीरं न तदेव स्यात् देवगतिसहचारि, तिर्यग्गतिसहचारि वा, अत एव तत्तद्विशेषगत्यपेक्षया ते अनादिसम्बन्धे अपि स्यातां सादिसम्बन्धे । विशेषतासापेक्षत्वेन च सादिसंबन्धस्य न अनादिसंबन्धेन विरोधः। औदारिक-वैक्रिय-आहारकाणि शरीराणि यथा जीवस्य कादाचित्कानि, न तथा तैजसकार्मणे. एते तु नित्यसंबन्धिनी हि आ संसारक्षयात्-इति । __ एते तैजस-कार्मणे किं कस्यचिदेव भवतः ? उत अविशेषेण सर्वस्य ? इत्याह-- ते सर्वस्य ॥ ३८ ॥ सर्वशब्दो निरवशेषवाची, निरवशेषस्य संसारिणो जीवस्य ते द्वे अपि शरीरे भवतः । ____ अविशेषाभिधानात् तैरौदारिकादिभिरपि सर्वस्य संसारिणो योगपद्येन सम्बन्धप्रसङ्गे सति संभाविशरीरं प्रदर्शयन् आहतदादीनि भाज्यानि युगपद एकस्मिन् आ चतुर्व्यः॥३६॥ ____ तच्छन्दः प्रकृततैजस-कार्मणप्रतिनिर्देशार्थः-ते तैजसकार्मणे आदिर्येषां तानि-तदादीनि-भाज्यानि-विकल्प्यानि, कुतः १ आ चतुर्यः. युगपद् एकस्य आत्मनः कस्यचिद् द्वे -तैजस-कार्मणे, अपरस्य त्रीणि-औदारिक-तैजस-कार्मणानि, क्रिय-तैजस-कार्मणानि वा, अन्यस्य पुनश्चत्वारि-ौदारिक-आहारक-तैजस-कार्मणानि इति विभागः । वैक्रियाऽऽ For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy