SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाचकस्य औदारिकपदस्य कोऽर्थः १ इत्याशङ्कायां तत्तच्छन्दाथमाह-उपादानात् प्रभृति अनुसमयमुद्गच्छति नाम वर्धते इत्युदारम् । तल्लक्षणं तु सजातीयेतरव्यावर्तनाय प्रोक्तं प्राक् । वैक्रियं विवृणोति-- विक्रियाफलकं वैक्रियम् ॥ २६ ॥ विविधं क्रियते नाम-एकं भूत्वा अनेक भवंति, अनेक भूत्वा एकं भवति, अणु भूत्वा महद् भवति, महद् भूत्वा अणु भवति-इत्यादि विक्रियायां जायते तद् वैक्रियमिति । आहारकमालेखयति निर्वृत्त्यर्थकम् आहारकम् ॥ ३० ॥ आहियते-निर्वय॑ते इति आहारकम् । केन ? इति चेत् प्रमत्तसंयतेन चतुर्दशपूर्वधरेण इति पूरणीयम् । किमर्थम् ? इति चेत् सूक्ष्मपदार्थनिर्ज्ञानार्थम् , असंयमपरिजिहीर्षया वा संदेहनिवारणाय इति । तैजसम् उत्तेजयति तेजोनिमित्तं तैजसम् ॥ ३१ ॥ तेजसो विकारो तेजोमयम् , तेजः स्वतत्त्वं शापाऽनुग्रहप्रयोजनत्वमिति । कार्मणं परिकर्मयति कर्मोपादानं कार्मणम् ॥ ३२ ॥ कर्मणो विकारः कार्मणम्-कर्म उपादानं यस्य तत् कामणमित्यर्थः । कर्मणा-क्रियया-प्रवृत्या संगृह्यमाणत्वेन कामणमभिधीयते । एतदपि सर्वेषामेव देहधारिणाम् । नवरम् एतदेव कार्मणं शरीरं सर्वशरीरमूलभूतम्-संसारकारणं च । For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy