SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ ऋजुसूत्र हि ऋजु एव सूत्रयन् - वर्तमानतामेव समपेक्षमाणः धर्मार्थिके एव नये स्वात्मानं योजयति. समानार्थेषु अपि शब्देषु निरुक्तभेदाद् वाग्व्यवहारमाश्रित्य भिन्नमर्थं समभिरोहन् समभिरूढोऽपि नयः न शब्दनयात स्वात्मानं भिन्नं शब्दाययितुं शक्तः शब्दानां निजनिजप्रवृत्तिनिमित्तभूतक्रियायुक्तमर्थमाविर्भावयन् एवंभूतोऽपि नयः शब्दनयशरीरे एवं अन्तर्भवति, एवं ग्रन्थान्तरे विस्तरेण व्याख्याता एते सप्ताऽपि नया अत्र नयत्रये एव संत्रौकन्ते. किंच, एवमेव क्रियाप्रधानः क्रियानयः, विधिप्रधानो विधिनयः, निषेधप्रधानो निषेधनयः, ज्ञानप्रवणो ज्ञाननयः, गुणप्रवणो गुणनयः - एवं रीत्या नैके नया स्वनेयापेक्षया श्रत्र नत्र एव प्रविशन्ति - इति. स्वनेयं नयन्तः, अन्यनेयं समुपेक्षमाणा एते शमभृतः । श्रीरत्नप्रभसूरयोऽपि चैतदेव समृदु: - " निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः । औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नया वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नया: " || “ अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते ! स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयतां विपक्षक्षेप्तॄणां पुनरिह विभो ! दुष्टनयताम् || - For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy