SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वादशस्तम्भः। एवंकृतोत्तरास्ते तु युंज्यात्मानं तपोधिया ॥ अवश्यंभाविनं दृष्ट्वा तमधोह्यशपस्तदा ॥ २४॥ इत्युक्तमात्रो नृपतिः प्रविवेश रसातलम् ॥ ऊर्ध्वचारी नृपो भूत्वा रसातलचरोभवत् ॥२५॥ वसुधातलचारी तु तेन वाक्येन सोभवत् ॥ धर्माणां संशयच्छेत्ता राजा वसुरधोगतः ॥ २६ ॥ तस्मान्न वाच्यो ह्येकेन बहुज्ञेनापि संशयः ॥ बहुधारस्य धर्मस्य सूक्ष्मादुरनुगागतिः ॥२७॥ तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यो हि केनचित् ॥ देवानृषीनुपादाय स्वायंभुवमृते मनुम् ॥२८॥ तस्मान्न हिंसा यज्ञे स्याद्यदुक्तमृषिभिः पुरा ॥ ऋषिकोटिसहस्राणि स्वैस्तपोभिर्दिवं गताः॥२९॥ तस्मान्न हिंसा यज्ञं च प्रशंसन्ति महर्षयः॥ उञ्छो मूलं फलं शाकमुदपात्रं तपोधनाः ॥३०॥ एतद्दत्त्वा विभवतः स्वर्गलोके प्रतिष्ठिताः ॥ अद्रोहश्चाप्यलोभश्च दमोभूतदयाशमः ॥३१॥ ब्रह्मचर्य तपः शौचमनुक्रोशं क्षमा धृतिः॥ सनातनस्य धर्मस्य मूलमेव दुरासदम् ॥ ३२॥ द्रव्यमंत्रात्मको यज्ञस्तपश्च समतात्मकम् ॥ यज्ञैश्च देवानाप्नोति वैराजं तपसा पुनः॥३३॥ ब्रह्मणः कर्मसंन्यासाद्वैराग्यात्प्रकृतेर्लयम् ॥ ज्ञानात्प्राप्नोति कैवल्यं पंचैता गतयः स्मृताः॥३४॥ एवं विवादः सुमहान् यज्ञस्यासीत्प्रवर्तने ॥ ऋषीणां देवतानां च पूर्व स्वायंभुवेन्तरे॥३५॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy