________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
द्वादशस्तम्भः।
(सूतउवाच) मंत्रान् वै योजयित्वा तु इहामुत्र च कर्मसु॥ तथा विश्वभुगिंद्रस्तु यज्ञं प्रावर्तयत् प्रभुः॥५॥ दैवतैः सह संहत्य सर्वसाधनसंवृतः॥ तस्याश्वमेधे वितते समाजग्मुर्महर्षयः॥६॥ यज्ञकर्मण्यवर्तत कर्मण्यग्रे तथविजः॥ ह्रयमाने देवहोत्रे अग्नौ बहुविधं हविः॥७॥ संप्रतीतेषु देवेषु सामगेषु च सुस्वरम्॥ परिक्रांतेषु लघुषु अध्वर्युपुरुषेषु च॥८॥ आलब्धेषु च मध्ये तु तथा पशुगणेषु वै॥ आहूतेषु च देवेषु यज्ञभुक्षु ततस्तदा॥९॥ यइंद्रियात्मका देवा यज्ञभागभुजस्तु ते॥ तान् यति तदा देवाः कल्पादिषु भवंति ये॥ १०॥ अध्वर्युप्रेषकाले तु व्युत्थिता ऋषयस्तथा ॥ महर्षयश्च तान दृष्ट्वा दीनान् पशुगणांस्तदा॥ विश्वभुजं ते त्वपृच्छन् कथं यज्ञ विधिस्तव॥११॥ अधर्मो बलवानेष हिंसाधर्मेप्सया तव ॥ नवः पशुविधिस्त्विष्टस्तव यज्ञे सुरोत्तम ॥१२॥ अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया॥ नायं धर्मो ह्यधर्मोयं न हिंसाधर्म उच्यते॥ आगमेन भवान धर्म प्रकरोतु यदीच्छति॥१३॥
For Private And Personal