________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६६
तत्वनिर्णयप्रासाद
ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्थिते ॥ न निवर्तयितुं शक्यः शापः किंतु ब्रवीमि ते ॥ ९ ॥ शीघ्रमेष्यसि मानुष्यात् स त्वं कामसमन्वितः ॥ शिरसा तु ततो वन्द्य मातरं पूर्णमानसः ॥ उवाचार्चित पूर्णेन्दुद्युतिं च हिमशैलजाम् ॥ १० ॥
॥ वीरक उवाच ॥
नतसुरासुरमौलिमिलन्मणिप्रचयकान्तिकरालनखाङ्किते ॥ नगसुते ! शरणागतवत्सले! तव नतोऽस्मि नतार्त्तिविनाशिनि ११ तपनमण्डलमण्डितकन्धरे ! पृथुसुवर्णसुवर्णनगद्युते ! ॥ विषभुजङ्गनिषङ्गविभूषिते ! गिरिसुते ! भवतीमहमाश्रये ॥ १२ ॥ जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा ॥ जगति काञ्चनवाञ्छतिशंकरो भुवनघृतनये ! भवतीं यथा ॥ १३ ॥ विमलयोगविनिर्मितदुर्जयस्वतनुतुल्यमहेश्वर मण्डले ! ॥ विदलितान्धकबान्धवसंहतिः सुखरैः प्रथमं त्वमभिष्टुता ॥ ५४ ॥ सितसटापटलोइतकंधराभरमहामृगराजरथा स्थिता ॥ विमलशक्तिमुखानलपिङलायतभुजौघविपिष्टमहासुरा ॥ १५ ॥ निगदिता भुवनैरिति चण्डिका जननि ! शुम्भनिशुम्भनिषूदनी ॥ प्रणतचिन्तितदानव दानवप्रमथनैकरतिस्तरसा भुवि ॥ १६ ॥ वियति वायुपथे ज्वलनोज्ज्वलेऽवनितले तव देवि ! चयइपुः ॥ तदजितेप्रतिमे प्रणमाम्यहं भुवनभाविनि ! ते भववलमे ॥ १७ ॥ जलधयो ललितोद्धवतीचयो हुतवहद्युतयश्च चराचरम् ॥ फणसहस्रभृतश्च भुजङ्गमास्त्वदभिधास्यति मय्यभयंकरा ॥ १८ ॥ भगवति ! स्थिरभक्तजनाश्रये ! प्रतिगतो भवतीचरणाश्रयम् ॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal