SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जातिनिरूपणम् । निर्णयकारणेोपन्यासे ऽपि संशयहेतूनां समानधर्मादीनामन्यतमसद्भावमात्रात् संशयापादनेन प्रत्यवस्थानं संशयसमः यथा अनित्यः शब्दः कृतकत्वाद् घटवदिति अनित्यत्व निर्णयप्रमाखेोपन्यासे यदि निर्णयकसद्भावान्निर्णयः स्यात् तर्हि नित्यानि - त्ययोः सामान्यघटयोः समानमैन्द्रियकत्वं संशयहेतुः शब्दे ऽस्तीति नित्यानित्यत्वे संशयोऽपि स्यात् स्वका सद्भावे ऽपि वा संशयानुत्पत्ती निर्णयापि न स्यादविशेषादिति । समानधर्मीदिसंशयकारण विधुरम्य निर्णयकारणस्य निर्णय हेतुत्वमित्यभिमानः कारणम् कार्यापेक्षया सत्प्रतिपक्षत्वमारोप्यं निर्णयप्रतिपक्षस्य संशयस्योपस्थानात् । ज्ञाप्यापेक्षया विशेषणासिद्धिः संशयहेतुविर हे निर्णय हेतुत्वमित्यभिमानात् तस्य चात्राभावादिति । अत्र सूत्रम् । सामान्यदृष्टान्तया रैन्द्रियकत्वे सामाने नित्यानित्यसाधर्म्यात् संशयसम इति । अत्र समान इत्यन्तमुदाहरण प्रदर्शनपरम् । नित्यानित्यशब्दा सपक्ष विपक्षावुपलक्षयतः साधर्म्यपदं च For Private and Personal Use Only 250 समानधर्मादीनां समानधर्मानेकधर्मविप्रतिपत्त्या सद्भावमात्रादिति मात्रया निर्णयकारणसाहित्याभावे सतीति गम्यते संशयापादनेन प्रत्यवस्थानमिति विशेषः । अविशेषात् कारणसद्भावे विशेषाभावात् । उपस्थानात् आधानात् तस्य चात्राभावात् कृतकत्वादिनिर्णयहेतो: समानधर्मी दिसंशयहेतुविरहस्याभावात् । उदाहरण प्रद 368
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy