SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जातिनिरूपणम् । २६ न्तः । सिद्धेन चातिदेशो भवत्यसिद्धस्येति न्यायात् सिद्धा दृष्टान्तः । पक्षस्तु साध्योऽङ्गीकार्यः उभयोरपि सिद्धत्वे साध्यत्वे वा दृष्टान्तदाष्टन्तिकभावव्याघात इति ॥ १३ ॥ प्राध्य साध्यं साधयति हेतुश्चेत् प्राप्तिकर्मणः । साध्यस्य पूर्व सिद्धिः स्यादिति प्राप्तिसमेोदयः ॥ १४ ॥ कृतिज्ञप्तिसाधारणीयं जातिः ततश्च साध्यं कार्यं ज्ञाप्यं च । तत्र कार्यमनुमितिज्ञानं ज्ञाप्यमनुमेयम् हेतुश्च लिङ्गं तज्ज्ञानं वा । प्राप्तिः संयोगादिर्विषयविषयिभावश्च सिद्धिः सत्त्वं ज्ञातत्वं च समयेोरुत्तरम् । साध्यत्वे वेति । वर्ण्यसाध्ययोरुत्तरमिति विभागः ॥ १३ ॥ प्रातिकर्मणः प्राप्त्याख्यसम्बन्धप्रतिसम्बन्धिनः । कृतिज्ञप्तीति । अनुमितिज्ञानस्योत्पत्तिपक्षे अनुमेयप्रतिपक्षे चेयं जातिः प्रवर्तत इत्यर्थः । ततश्चेति । सिद्धिशव्दस्य कृतिज्ञशिवाचकत्वात् साध्यशब्दस्यानुमितिज्ञानानुमेयं च वाच्यमित्यर्थः । हेतुश्चेति । व्याप्तत्वेन परामृष्ट लिङ्गपरामर्शो वा हेतुरिति पूर्वमेवेोक्तमित्यर्थः । प्राप्तिः संयोगादिरिति । यदा लिङ्गं हेतुस्तदा साध्येन यथायोगं संयोगसमवायादिः सम्बन्धः यदा लिङ्गज्ञानं हेतुस्तदाविषयविषयोभाव इत्यर्थः । सिद्धिः सत्त्वमिति । कृतिपक्षे सिद्धिरुत्पत्तिः ज्ञप्तिपक्षे ज्ञातत्वमित्यर्थः । आहत्यपदेन किमुक्तं भवतीत्यत्राह (?) । एतदुक्तं भवतीति । तेना For Private and Personal Use Only ५५.
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy