SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 42 www.kobatirth.org सटीकतार्किकरक्षायाम् रणगुणप्रक्रमेण रक्तादिगुणेोत्पत्तिरिति कृतं विस्त रेण ॥ ५७० Acharya Shri Kailassagarsuri Gyanmandir अथ कर्मलक्षणमाह । कर्म चासमवायि स्याद्यत्संयोगविभागयोः । समुचितयोः संयोग विभागयेारसमवायिकारणं कर्म तेनैकत्र कारणयेोः संयोगविभागये । नीतिव्याप्तिः । असमवायिकारणं च समवायिकारण प्रत्यासन्नम् (१) । द्विविधा व प्रत्यासत्तिः । समवायिकारणसमवेतमित्याशयेनाह । इति कृतमिति । प्रक्रिया तु विस्तरभयान्न लिख्यते । प्रमाणं तु पीलुपाके विमताः पिठरे रूपादयः कारणगुणपूर्वका अवयविरूपादित्वात् पटरूपादिनदित्याद्युन्नेयम् । इति पाकजोत्पत्तिः ॥ सामान्यवत्सु शिष्टत्वात् सामान्यादेः प्राक्कर्म लक्षणमाह । अथेति । ननु संयोगविभागयेारसमवाय्यसमवेतमित्यर्थश्चेत् सामान्यादावतिव्याप्तिः असमवायिकारणमित्यर्थश्चेत् संयोगविभागयेोरपि तथात्वात् तयोरेवातिव्याप्तिरित्याशङ्क्य व्याचष्टे । समुचितयोरिति । समुचयफलमाह । तेनेति । संयोगस्य विभागाजनकत्वे सति संयोगजनकत्वं विभागस्यापि संयोगाजनकत्वे सति विभागजनकत्वं कर्मणां तूभयजनकत्वमिति भेद इति भावः । एवं कर्मलक्षणस्यासमवायिकारणज्ञानसापेक्षत्वात् तलक्षणं चाह । असमवायिकारणं चेति । कथञ्चित् प्रत्यासन्नेषु अदृष्टादिष्वतिव्याप्तिपरिहारार्थं विशेषमाह । द्विविधेति । समवा (१) अवधृतसामर्थ्यं - इत्यधिकं B For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy