SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रमेयप्रकरणे शरीर्तनरूपण । Acharya Shri Kailassagarsuri Gyanmandir १२१ रात्रयमाह । शरीरमन्यावयवि चेष्टाभेोगेन्द्रियाश्रयः ॥२१॥ अन्त्यावयवि चेष्टाश्रय इत्येकं लक्षणाम् । अत्र चेष्टा नाम प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया विवक्षिता । ततश्चः दृष्टवदात्मसंयोगासमवाविकारणक क्रियाश्रयाणां दहनपत्रनादीनां निरासः । तदुक्तम् । अग्नेरुर्ध्वज्वलनं वायो स्तिर्यक्पवनम् अणुमनसेोश्चादां कर्मेत्येतान्यदृष्टकारितानीति । अन्त्यावयवीति करचरणादिव्युदासः । अन्यावयवि भोगाश्रय इति द्वितीयं लक्षणम् । भोगाश्रयत्वं नाम भोगायतनत्वम् । यदाश्रित्य आत्मा भगवान् भवतीति किमर्थमुत्तरश्लोके शरीरस्य लक्षणत्रयोक्तिरित्यत आह । सूत्रकारेति । स तु विषयव्याप्तिकामुक इति भावः । For Private and Personal Use Only I ननु चेष्टादीनामेकैकस्यैव लक्षणत्वादितरानर्थक्यमित्याशयै तल्लक्षणत्रयमिति व्याचष्टे । अन्त्येति । चेष्टालक्षणं तावदाह | अत्रेति । अथैतद्विशेषणव्यावर्त्यमाह । ततश्चेति । दहनपवनादीनां तथात्वे समानतन्त्रसूत्रसम्मतिमाह । तदुक्तमग्नेरित्यादि । द्रव्यानारम्भकमवयविद्रव्यमन्स्यावयवीति तेन पदेन शरीरारम्भकाणां करचरणादीनां व्युदास इत्यर्थः । ननु सुखदुःखानुभवो भागः तदाश्रयत्वमात्मनो न तु शरीरस्येत्यसम्भवि लक्षणमित्याशय व्याचष्टे । भोगायतनत्वमिति । नन्वनयोः को विशेष इत्यत । ३०५
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy